Enter your Email Address to subscribe to our newsletters

भोपालम्, 13 नवम्बरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य गुरुवासरे प्रदेशस्य १.३३ लक्षकृषकान् प्रति २३३ कोटिरूप्यकाणां भावान्तरराशेः अन्तरणं करिष्यति। मुख्यमन्त्री डॉ॰ यादवः देवासे आयोजिते राज्यस्तरीये कार्यक्रमेण भावान्तरयोजनान्तर्गतं प्रदेशस्य सोयाबीनोत्पादककृषकानां प्रति एतां राशिं अन्तरयिष्यति।
जनसम्पर्काधिकारी लक्ष्मणसिंहे सूचनां दत्वा उक्तवान् यत् मुख्यमन्त्री डॉ॰ यादवः कार्यक्रमे देवासजिलस्य १८३ कोटि २५ लक्षरूप्यकाणां व्ययेण अष्टविकासकार्यानां भूमिपूजनं अपि करिष्यति। मुख्यमन्त्री डॉ॰ यादवः नवम्बरमासस्य त्रयोदशे दिने प्रातः ११.३० वादने देवासं आगमिष्यति। कार्यक्रमस्य अनन्तरं मध्याह्ने १.३५ वादने देवासतः इन्दौरं प्रति प्रस्थानं करिष्यति। देवासजिलाधिकारी ऋतुराजसिंहे सम्बन्धिताधिकारिणः कार्यक्रमस्थले आवागमनस्य, उपवेशनस्य च सम्यक् व्यवस्थां, यातायातव्यवस्थां, पेयजलव्यवस्थां, वाहनपार्किंगव्यवस्थां, सुरक्षा, चिकित्सां च अन्येषां सर्वेषां आवश्यकव्यवस्थानां विषये निर्देशान् दत्तवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता