Enter your Email Address to subscribe to our newsletters

कोलकाता, 13 नवम्बरमासः(हि.स.)। कलकत्तायाः उच्चन्यायालयेन पश्चिमबङ्गस्य कृष्णनगर-उत्तरनिर्वाचनक्षेत्रात् निर्वाचितस्य विधायकस्य मुकुलरायस्य सदस्यता निरस्ता कृता अस्ति। न्यायमूर्तिद्वयं देबांशुबसाक: तथा शब्बरराशिदी इत्येतयोः खण्डपीठेन गुरुवासरे अयं महत्वपूर्णः निर्णयः प्रदत्तः।
मुकुलरायः २०२१ तमे वर्षे भारतीयजनतापक्षस्य नामनिर्देशेन विधानसभानिर्वाचने विजयी जातः आसीत्, किन्तु २०२२ तमे वर्षे पुनः तृणमूलकाँग्रसदले पुनरागतः। अस्य कृत्यस्य फलरूपेण तस्य विधायकपदस्य विषये विवादः उत्पन्नः। भारतसंविधानस्य अनुच्छेदे दशमे निर्दिष्टं यत् यदि कश्चन निर्वाचितः जनप्रतिनिधिः दलं परिवर्तयति, तदा तस्य सदस्यता स्वयमेव समाप्ता भवति। एतेनैव नियमेन नेता प्रतिपक्षः शुभेन्दुः अधिकारी नाम विधानसभा-अध्यक्षं प्रति मुकुलरायस्य सदस्यतानिरस्तनाय आवेदनं दत्तवान्।
अध्यक्षेन तु शुभेन्दोः याचिका अस्वीकृत्य मुकुलरायस्य सदस्यता स्थितौ एव स्थापिता आसीत्। तस्य निर्णयस्य विरुद्धं शुभेन्दुः अधिकारी न्यायालयं प्रति याचनां कृतवान्। अधुना उच्चन्यायालयेन अध्यक्षस्य निर्णयः अपाकृत्य मुकुलरायस्य विधायकत्वम् अमान्यं घोषितम्।निर्णयस्य अनन्तरं शुभेन्दुः अधिकारी इक्स् (पूर्वं ट्विटर्) माध्यमेन स्वमतं व्यक्त्वा उक्तवान्— “एषः न केवलं राज्यस्य, अपितु सम्भवतः देशस्य इतिहासे अपि प्रथमवारं दृष्टः निर्णयः अस्ति।”
स्मरणीयम् यत् मुकुलरायः तृणमूलकाँग्रस्संघटनस्य प्रारम्भकालादेव प्रमुखः रणनीतिज्ञः आसीत्, यः “चाणक्यः” इति अपि प्रसिद्धः। सः २०१७ तमे नवेम्बरमासे तृणमूलं परित्यज्य भाजपां प्रति गतवान्, तथा २०२१ तमे वर्षे भाजपापक्षेण विधायकः निर्वाचितः अभवत्। तदा तृणमूलेन अभिनेत्री कौशानीमुखोपाध्याय नामिका प्रत्याशी नियुक्ता आसीत्, या पराजिता जाता। अनन्तरं २०२२ तमे सितम्बरमासे मुकुलरायः पुनः तृणमूलकाँग्रसंघटनं प्रति प्रत्यागतः, तदनन्तरं भाजपायाः नेतृभिः दलपरिवर्तनविरोधिनियमस्य अन्तर्गतं तस्य विरुद्धं कार्यवाहीयाचना कृता। अन्ततः अधुना कलकत्तायाः उच्चन्यायालयेन तस्य विधायकपदं निरस्तं कृतम्। अस्य विरुद्धं याचिका अपि शुभेन्दुः अधिकारी एव प्रदत्तवान्।
---
हिन्दुस्थान समाचार / Dheeraj Maithani