एकलव्य-आदर्श-आवासीयविद्यालयानां 597 छात्राः जेईई तथा नीट इवमेव कठिनपरीक्षासु सफलतां प्राप्तवन्तः।
नवदेहली, 13 नवंबरमासः (हि.स.)। देशस्य दूरदुर्गम आदिवासी प्रदेशेभ्यः निर्गत्य शिक्षाायाः नवां आदर्शं स्थापयन्तः एकलव्य-मॉडल-आवासीय-विद्यालयानाम् (ईएमआरएस्) 597 छात्राः वर्षे 2024-25 देशस्य अत्यन्त-कठिनयोः प्रतियोगी-परीक्षयोः—जेईई-मेन्, जेईई-एड्वान्स
चित्र 1- नेगी, हिमाचल प्रदेश के किन्नौर जिले के सांगला गांव का है जो वृहत हिमालय में तिब्बत की सीमा के नजदीक है। तस्वीर सांगला से बीस किलोमीटर दूर छितकुल गांव का है।


नवदेहली, 13 नवंबरमासः (हि.स.)। देशस्य दूरदुर्गम आदिवासी प्रदेशेभ्यः निर्गत्य शिक्षाायाः नवां आदर्शं स्थापयन्तः एकलव्य-मॉडल-आवासीय-विद्यालयानाम् (ईएमआरएस्) 597 छात्राः वर्षे 2024-25 देशस्य अत्यन्त-कठिनयोः प्रतियोगी-परीक्षयोः—जेईई-मेन्, जेईई-एड्वान्स्ड् तथा नीट्—सफलतां प्राप्तवन्तः। वर्षे 2022-23 यत्र केवलं द्वौ छात्रौ एव एते परीक्षे उतीर्णौ आस्ताम्, तत्र अधुना एषा संख्या 597 पर्यन्तं अभवत्। एषा सिद्धिः आदिवासी-विद्यार्थिनां प्रति गुणवत्तायुक्त-शिक्षायाः तथा प्रतिस्पर्धी-परीक्षा-प्रशिक्षणस्य परिणामरूपेण दृष्टा। ईएमआरएस् संस्थानानां 230 विद्यालयेषु यत्र कक्षा-द्वादश-पर्यन्तं शिक्षणं सम्पद्यते, तेषां 101 विद्यालयानां छात्रैः अस्मिन् वर्षे आईआईटी तथा मेडिकल्-प्रख्यात-संस्थानयोः प्रवेशः लब्धः।

हिमाचल-प्रदेशस्य किन्नौर-जिलस्य सांगला-ग्रामस्य जतिन् नेगी नामकः छात्रः दुरापेक्षासु परिस्थितिषु अपि जेईई-एड्वान्स्ड्-परीक्षायां अखिल-भारतीय-स्थानक्रमे 421-अंकेन उत्तीर्णः सन् अधुना आईआईटी-जोद्धपुरे बी-टेक्-अध्ययनं करोति। तीव्र-शीतल-वातावरणे, विद्युत्-अभावे, सीमित-साधनैः अध्ययनं कुर्वन् जतिन् तस्य आस्थां तथा मार्गदर्शनस्य प्रभावं प्रकटयति।तस्य वचनम् — “ग्रामे अस्माकं द्वौ मासौ विद्युत्-अभावः आसीत्। रात्रौ सौरदीपप्रकाशे पठितुं प्रवृत्तः। किन्तु ईएमआरएस्-शिक्षकैः नियमित-परीक्षा-परिवेशः निर्मितः, यस्य फलतः आत्मविश्वासः वर्धितः।”

गुजरातस्य तापी-जनपदस्य खपाटिया-ग्रामे जाता पदवी उर्जस्वीबेन-अमृतभाई नामिका छात्रा समाजस्य रूढीन् भङ्क्त्वा नीट्-परीक्षायां 11,926-अंकं प्राप्तवती, अधुना च जूनागढस्य जीएमईआरएस-मेडिकल्-कॉलेजे एमबीबीएस्-पाठ्यक्रमे अध्ययनं करोति। सा वदति — “जनाः कथयन्ति यत् कन्याः किञ्चित् न शक्नुवन्ति, किन्तु मया प्रदर्शितं यत् परिश्रमेण सर्वं सम्भवति। अधुना अहं वैद्यत्वेन ग्रामजनानां सेवा करिष्यामि।”

वर्षे 2024-25 नीट्-परीक्षायाम् सर्वाधिक-सफल-छात्राः गुजराततः (173), मध्य-प्रदेशतः (115), छत्तीसगढतः (18) अभवन्। जेईई-मेन्-परीक्षायाम् तेलङ्गाणतः (60), मध्य-प्रदेशतः (51), गुजराततः (37) छात्राः चयनिताः। समग्रेण 219 छात्राः जेईई-मेन्, 34 जेईई-एड्वान्स्ड्, 344 नीट्-परीक्षां उत्तीर्णाः। त्रैवार्षिक-तुलनायां एषा सिद्धिः ऐतिहासिकी दृष्टा। वर्षे 2022-23 केवलं द्वौ छात्रौ, 2023-24 मध्ये 22 छात्राः, 2024-25 मध्ये तु 597 छात्राः सफलतां प्राप्तवन्तः।

शिक्षया सशक्तीकरणस्य दिशि योगदानम्।

जनजाति-कार्य-मन्त्रालयेन स्थापिताः एकलव्य-मॉडल-आवासीय-विद्यालयाः (ईएमआरएस्) अनुसूचित-जनजाति-विद्यार्थिभ्यः निःशुल्कं गुणवत्तायुक्तं च सीबीएसई-संबद्धं शिक्षां प्रददति। एतेषु विद्यालयेषु विद्यार्थी न केवलं पाठम्, अपि तु क्रीडा, तन्त्र-शिक्षा, डिजिटल्-अध्ययनं, कौशल-विकासं च अधीयन्ते। देशे 722 विद्यालयाः अनुमोदिताः, तेषु 485 क्रियाशीलाः। वर्षे 2024-25 एतेषु 1,38,000 अधिकाः छात्राः नामाङ्किताः। मन्त्रालयेन अनुच्छेद 275(1) अनुसारं राज्येभ्यः निर्माण-परिचालनार्थं 68,418-लक्ष-रूप्यकाणां सहायता प्रदत्ता।

संवैधानिकं वैधानिकं च समर्थनम्

संविधानस्य अनुच्छेदः 46 राज्यं निर्देशयति यत् समाजस्य दुर्बल-वर्गाणां, विशेषतः अनुसूचित-जनजाति-अनुसूचित-जाति-वर्गयोः, शिक्षण-आर्थिक-हितान् संवर्धयेत्। अनुच्छेद-15(4) -15(5)-द्वयेन राज्याय अनुमतिः यत् शिक्षायां विशेष-प्रावधानं करोतु। तस्मात् 2006 तमे वर्षे केन्द्रीय-शैक्षणिकसंस्थानप्रवेश-आरक्षण-अधिनियमः प्रवर्तितः, यस्य अन्तर्गतम् अनुसूचित-जनजातिविद्यार्थिभ्यः 7.5 प्रतिशतम् आरक्षणं प्रदत्तम्।

विशेषशैक्षणिककार्यक्रमाः

राष्ट्रीय-आदिवासीछात्रशिक्षासमाजेन छात्रेभ्यः प्रतियोगीपरीक्षासिद्धतासहायार्थं विविधाः योजनाः संचालिताः—सेंटर्-ऑफ्-एक्सीलेंस्—भोपाल, महाराष्ट्र, आन्ध्र-प्रदेशेषु आईआईटी-जेईई-नीट्-प्रशिक्षणाय केन्द्राणि।

डिजिटल्-ट्यूटोरिंग्—पूर्व-नवोदयन-फाउण्डेशन्, पेस्-आईआईटी-मेडिकल्-संस्थाभ्यां सह। आई-हब् दिव्यसंपर्क (आईआईटी-रूढकी)—विज्ञान-तन्त्रज्ञान-प्रयोगशालाः।

स्मार्ट्-क्लास्, डिजिटल्-कण्टेन्ट्—ईआरनेट्, एमईआईटीवाय सहकार्येण।

अटल्-टिङ्करिङ्-लैब्स्, स्किल्-लैब्स्—स्टेम्-शिक्षा-कौशल-विकास-केन्द्रिताः।

‘तलाश्’ कार्यक्रमः—योग्यता-आसक्ति-आधारे उद्योग-मार्गदर्शनम्।

परिणामरूपेण परिवर्तनम्

ईएमआरएस्-विद्यालयेषु शिक्षां प्राप्य आदिवासी-विद्यार्थिनः अधुना आत्मविश्वासेन न केवलं बोर्ड्-परीक्षासु, अपि तु देशस्य कठिनतमासु प्रतियोगी-परीक्षासु अपि विजयं लभन्ते। एषा सिद्धिः दर्शयति यत् सुलभा गुणवत्तायुक्ता च शिक्षा यदि लभ्यते, तर्हि सामाजिक-भौगोलिक-सीमाः अपि प्रतिभां न निरोद्धुं शक्नुवन्ति।

-----------

हिन्दुस्थान समाचार / Dheeraj Maithani