Enter your Email Address to subscribe to our newsletters

झुंझुनूः, 13 नवंबरमासः (हि.स.)।राजस्थानराज्यस्य अपराधमहानिरीक्षिका परमज्योतिकौर इत्याख्या गुरुवासरे द्विदिनीयनिरीक्षणयात्रायाः निमित्तं झूंझुनूनामनगरं प्राप। तत्र सा जिल्यां अपराधनियन्त्रणं, न्यायव्यवस्थायाः स्थितिं, थानानां कार्यप्रणालिं च गम्भीररूपेण परीक्षितवती। निरीक्षणस्य प्रथमे दिने परमज्योतिकौर महोदया सदरथानं ग्राम्यवृत्तकार्यालयं च अवलोक्य तत्र अभिलेखसंरक्षणं, स्वच्छता, नूतनानां आपराधिकनियमानां पालनं च विस्तीर्णरूपेण परीक्ष्य अभिप्रायं दत्तवती।
तस्याः कथनम् — “पुलिसस्य तांत्रिकबलवृद्धिः, पारदर्शिता, जनसम्बन्धेषु विश्वासनिर्माणं च अतीवावश्यकम्।” सा अवदत् यत् निरीक्षणस्य मुख्योद्देश्यः अस्ति — “सेवायां निरतम् अस्मिन् पुलिसबलस्य मनोबलं ज्ञातुं, तेषां आवश्यकताः, बाधाः च अवगन्तुं च।” यद्यपि काचिद् समस्या मुख्यालयस्तरेण समाधानं लभेत, तर्हि तत् तत्रैव चर्च्यते इति।
सा पुनः उक्तवती यत् नूतनाः अपराधविधानानि प्रवृत्तानि सन्ति, च सीसीटीएनएस् (CCTNS) इत्यस्य प्रणाली अद्यतनरूपेण प्रचलिता। सर्वे अधिकारिणः सुनिश्चितं कुर्वन्तु यत् प्रत्येकं प्राथमिकीअभियोगपत्रं (एफआईआर्), आरोपपत्रं (चार्जशीट्), प्रकरणदैनिकी (केसडायरी) अन्यानि च कार्याणि तस्मिन्नेव प्रणालीमध्ये अभिलेख्यन्ते, येन दत्तांशः पारदर्शकः, सुलभः च भवेत्।
पुलिसबलस्य सुदृढीकरणविषये चर्चा कृत्वा सा उक्तवती — “राज्यस्तरे अनेकाः प्रयत्नाः प्रचलन्ति। थानेषु आधुनिकतां, डिजिटलीकरणं, रीयल् टाइम् प्रतिवेदनप्रणालीं च प्रवर्त्यते।” सा सर्वान् अधिकारिणः आदेशं दत्तवती — “प्रत्येकस्तरे पारदर्शिता अनिवार्या। पुलिसस्य मुखं जनानां पुरतः अधमस्तरे कर्मरतः कर्मचारी एव भवति। यदा जनाः अनुभवन्ति यत् पुलिस् तत्परतया, ईमानदारीया च कार्यं करोति, तदा एव तेषां विश्वासः दृढो भविष्यति।”
सदरथानस्य निरीक्षणकाले परमज्योतिकौर महोदया थानस्य स्वच्छतां, अभिलेखसंविधानं, मालखानव्यवस्था च परीक्ष्य संतोषं प्रकटयत्। सा उक्तवती यत् “अभिलेखान् डिजिटलीकृतपद्धत्यां अद्यतनरूपेण स्थापयितुं आवश्यकम्। तस्मादर्थं सीसीटीएनएस् प्रणाली सुचारुरूपेण कार्यं कुर्वीत।”
सा आदेशं दत्तवती यत् नूतनानां अपराधविधानानां ज्ञानं प्रत्येकपुलिसकर्मणः पर्यन्तं गच्छेत्। प्रत्येकः पुलिसकर्मी स्वकर्तव्येषु, अधिकारेषु च सजगः स्यात्।
जर्जरपुलिसभवनविषये पृष्टा सा उक्तवती यत्“येषां भवनानां स्थितिः भयानका आसीत्, तानि कण्डमितानि (अप्रयोज्यानि) घोषितानि। अद्यत्वे कोऽपि कर्मचारी खतरनाकभवने न वसति, च यदि भविष्ये एषा स्थिति आगच्छेत्, तर्हि त्वरितं कार्यं भविष्यति।”
---------------
हिन्दुस्थान समाचार