खरगोनम्- महेश्वरे 22 नवंबर दिनांके भक्ति संगीतेन सह भविष्यति निमाड-उत्सवस्य शुभारंभः
- देवी अहिल्या घट्टे प्रथम दिने लखवीर सिंह लक्खा दास्यति भजनानां प्रस्तुतिम् खरगोनम्, 13 नवम्बरमासः (हि.स.)।मध्यप्रदेशराज्यस्य खरगोनजिलेल स्थिते ऐतिहासिकनगरि महेश्वरनाम्नि नगरि २२ तः २४ नवम्बरपर्यन्तं त्रिदिवसीयः “निमाडोत्सवः २०२५” नाम उत्सवः आयो
महेश्वर का देवी अहिल्या घाट


- देवी अहिल्या घट्टे प्रथम दिने लखवीर सिंह लक्खा दास्यति भजनानां प्रस्तुतिम्

खरगोनम्, 13 नवम्बरमासः (हि.स.)।मध्यप्रदेशराज्यस्य खरगोनजिलेल स्थिते ऐतिहासिकनगरि महेश्वरनाम्नि नगरि २२ तः २४ नवम्बरपर्यन्तं त्रिदिवसीयः “निमाडोत्सवः २०२५” नाम उत्सवः आयोजनं क्रियते। अयं त्रिदिवसीयः निमाडोत्सवः मध्यप्रदेशआदिवासीलोककलाबोलिविकासअकादम्या संस्कृति-परिषद्भोपालेन च संयुक्तरूपेण आयोज्यते। अस्य उत्सवस्य शुभारम्भः २२ नवम्बरस्य सायं सप्तवादने देवीअहिल्याघाटे महेश्वरे भविष्यति। उद्घाटनसंध्यायां नवीदिल्लीस्थात् आगतेन सुप्रसिद्धगायकेन लखवीरसिंहलक्खा इत्यनेन तस्य च सहचरैः भक्तिसंगीतस्य प्रस्तुति दीयते स्म।

कार्यक्रमस्य संयोजकः जिला-पंचायत्तः मुख्यकार्यपालनाधिकारी आकाशसिंह इत्यनेन उक्तं यत् निमाडोत्सवस्य द्वितीये दिने २३ नवम्बरस्य विविधलोकसांस्कृतिककार्यक्रमाः आयोज्यन्ते। तस्मिन् दिने बाड़मेरदेशीयेन भुट्टेखाँ इत्यनेन तस्य च सहचरैः मांगणियारगायनं, पुरीदेशीयेन चन्द्रमणिप्रधानेन तस्य च सहचरैः गोटीपुआनृत्यं, बड़ोदादेशीयेन विजयभैराठवेनेन तस्य च सहचरैः राठनृत्यं च प्रदर्श्यते। तस्मिन्नेव दिने निमाडी-कविभिः अपि काव्यप्रस्तुतयः भविष्यन्ति। कवीनां मध्ये मोहनपरमारः (खरगोन), दिलीपकाले (महेश्वर), रामशर्मा परिन्दः (मनावर), जितेन्द्रयादवः (कसरावद), धनसिंहसेनः (जलकोटा), बिहारीपाटीदारग्रामवालः (उमियाधामकरोंदिया) इत्येते स्वस्वरचनाः प्रस्तुत्यन्ते। कविसम्मेलनस्य अध्यक्षता पद्मश्री-जगदीशजोशीलेन करिष्यते।

महोत्सवस्य अन्तिमे दिने २४ नवम्बरस्य शास्त्रीयलोकनृत्ययोः प्रस्तुतयः आयोज्यन्ते। तस्मिन् दिने खरगोनदेशीयया गौरीदेशमुखया तस्य च समूहेन कथकनृत्यं, खण्डवायाः अनुजायाः जोश्याः च समूहेन गणगौरनृत्यं, खण्डवायाः रामदाससाकल्लेन तस्य च समूहेन काठी-नृत्यं च प्रदर्श्यते। तस्मिन्नेव दिने राष्ट्रियकविसम्मेलनमपि भविष्यति, यस्मिन् राष्ट्रियकवयः सुदीपभोला, डॉ.शंभूसिंहमनहर, भुवन्मोहिनी, नरेन्द्रश्रीवास्तवअटल, रामभदावर “ओज” इत्येते कविता-पाठं करिष्यन्ति। तस्य सूत्रधारः बुद्धिप्रकाशदाधीचः भविष्यति।

उत्सवे सांस्कृतिककार्यक्रमैः सह विविधप्रतियोगिताः अपि आयोज्यन्ते। २२ नवम्बरस्य प्रातः अष्टवादने उत्कृष्टविद्यालयात् आरभ्य घाटपर्यन्तं यात्रा निर्गमिष्यति। तस्मिन्नेव दिने प्रातः नववादनात् उत्कृष्टविद्यालये कबड्डीप्रतियोगिता, अपराह्णे त्रिवादनात् पञ्चवादनपर्यन्तं देवीअहिल्याघाटे नौकासज्जाप्रतियोगिता च भविष्यति। २३ नवम्बरस्य प्रातः नववादनात् उत्कृष्टविद्यालये कुश्तीप्रतियोगिता, अपराह्णे द्वादशवादनात् त्रिवादनपर्यन्तं देवीअहिल्याकिले मेहंदीप्रतियोगिता च आयोज्यते। २४ नवम्बरस्य अपराह्णे द्विवादनात् त्रिवादनपर्यन्तं देवीअहिल्याकिले रंगोलीप्रतियोगिता भविष्यति।

हिन्दुस्थान समाचार