Enter your Email Address to subscribe to our newsletters

नवदेहली १३ नवम्बरमासः । – वैश्विकव्यापारानिश्चिततायाम् अपि भारतसर्कारेण निर्यातवृद्धये 45 सहस्रकोटिरूप्यकाणां प्रोत्साहन–पुटस्य घोषणां कृतवती। एतां घोषणाां प्रधानमन्त्रिणा नरेन्द्र–मोदिनाम्ना वैश्विकस्पर्धायाः संवर्धकः इति निर्दिष्टा।
प्रधानमन्त्री अवदत् यत् केन्द्र–सर्वकारस्य निर्यातप्रोत्साहनसम्बद्धाः निर्णयाः राष्ट्रस्य वैश्विकस्पर्धाशक्तिं सुदृढां करिष्यन्ति, आपूर्तिशृंखलाः सशक्ताः करिष्यन्ति, च नवरोजगारावसरान् उत्पादयिष्यन्ति। प्रधानमन्त्रिणा त्रिषु पृथक् ‘एक्स्’–पत्रप्रेषणेषु उक्तम् यत् एते निर्णयाः आत्मनिर्भरभारतस्वप्नस्य साकारणाय महत् चरणम्।
प्रधानमन्त्री अवदत् यत् — मन्त्रिमण्डलेन अनुमोदिता ‘निर्यातकानां कृते ऋणप्रतिभूतियोजना’ तेषां व्यापारकार्यसञ्चालनं सम्यक्तया करिष्यति, भारतस्य वैश्विकस्पर्धायां स्थितिं च अधिकं सुदृढां करिष्यति।
एषः उपायः भारतीय-उद्योगस्य स्थैर्यं, आत्मनिर्भरतां, रोजगारसृजनं च प्रोत्साहयिष्यति। अन्यस्मिन् पत्रप्रेषणे प्रधानमन्त्रिणा उक्तम् — ‘मेड् इन् इण्डिया’ इत्यस्य निनादः अधुना विश्वविपणे अधिकेन प्रभावेन श्राव्यः भविष्यति।
ते अवदन् यत् निर्यातप्रोत्साहनाभियान इत्यस्मात् निर्यातस्पर्धा संवर्धिता भविष्यति, एम्एसम्एम्ई–क्षेत्राय, नूतननिर्यातकानां, श्रमप्रधान-उद्योगानां च विशेषलाभः भविष्यति।
अस्मिन् अभियाने प्रमुख–हितधारकाः संयोज्य प्रभावीफलमुखव्यवस्था निर्मीयते। उल्लेखनीयं यत् केन्द्रसर्कारेण बुधवासरे वैश्विकव्यापारानिश्चिततायाम् अपि भारतीयनिर्यातप्रोत्साहनार्थं 45 सहस्रकोटिरूप्यकाणां प्रोत्साहनपुटः उद्घोषितः।
तस्मिन् २५,०६० कोटिरूप्यकाणां विनियोगः निर्यातप्रोत्साहनाभियानस्य अन्तर्गते कृतः, तथा २०,००० कोटिरूप्यकाणां प्रावधानं निर्यातक–कृते ऋणप्रतिभूतियोजनायाः विस्तारार्थं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता