Enter your Email Address to subscribe to our newsletters

लखनऊ,13 नवम्बरमासः (हि.स.)। लखनऊनगरात् सांसदः केन्द्ररक्षामन्त्री च श्रीराजनाथसिंहः द्विदिवसीयरूपेण यात्रां करिष्यति। सः शनिवासरे नवम्बरमासस्य पञ्चदशदिने स्वस्य संसदीयराज्यं लखनौ आगमिष्यति। महानगराध्यक्षः आनन्दद्विवेदिना उक्तं यत् रक्षामन्त्री राजनाथसिंहः शनिवासरे प्रातः एकादशवादनचत्वारिंशदधिके (११:४०) लखनऊविमानपत्तने आगमिष्यति। विमानपत्तनात् सदरप्रदेशं गत्वा तत्र संस्कृतपाठशालायाः सभागारं गमिष्यति। ततः सायं चतुर्वादने (४:००) राजाजीपुरं नगरभागे राजकुमारबालकेन्द्रे “वरिष्ठकार्यकर्तृजनसंवाद” इति कार्यक्रमे सहभागं करिष्यति। तस्यानन्तरं राज्यसभासांसदस्य संजयसेठस्य विक्रमादित्यमार्गस्थितगृहम् आगमिष्यति।
अनन्तरं रविवासरे अपराह्णद्वादशवादने (१२:००) वृन्दावनकोलोनीस्थे पासीचौराहे क्षेत्रे शहीदवीराङ्गना ऊदादेव्याः शहीदिदिवसे आयोजिते कार्यक्रमे सहभागी भविष्यति, तत्र च तस्याः प्रतिमाम् उद्घाटयिष्यति। कार्यक्रमस्य समाप्तेः अनन्तरं अपराह्णैकवादने (१:००) वृन्दावनकोलोनीतः विमानपत्तनाय प्रस्थानं करिष्यति तथा अपराह्णैकवादनविंशतौ (१:२०) लखनऊ विमानपत्तनात् दिल्लीं प्रति प्रयास्यति।
हिन्दुस्थान समाचार