लालकिलामेट्रोस्थानकं आगामीसूचनां यावत् निरुद्धं भविष्यति — दिल्लीमेट्रोरैलनिगमः (डीएमआरसी)
नवदेहली, 13 नवंबरमासः (हि.स)। दिल्लीमेट्रोरेलनिगमेन (डीएमआरसी) गुरुवासरे उक्तं यत् सुरक्षाकारणात् लालकिलामेट्रोस्थानकं आगामीसूचनां यावत् निरुद्धं भविष्यति। दिल्लीनगरस्य अन्ये सर्वे मेट्रोस्थानकाः सामान्यरूपेण कार्यरताः सन्ति। डीएमआरसी इत्यनेन ‘एक्
लाल किला मेट्रो स्टेशन का प्रतीकात्‍मक चित्र


नवदेहली, 13 नवंबरमासः (हि.स)। दिल्लीमेट्रोरेलनिगमेन (डीएमआरसी) गुरुवासरे उक्तं यत् सुरक्षाकारणात् लालकिलामेट्रोस्थानकं आगामीसूचनां यावत् निरुद्धं भविष्यति। दिल्लीनगरस्य अन्ये सर्वे मेट्रोस्थानकाः सामान्यरूपेण कार्यरताः सन्ति।

डीएमआरसी इत्यनेन ‘एक्स्’ इति सामाजिकमाध्यमे प्रकाशिते वक्तव्यम् उक्तं — “सुरक्षाकारणात् लालकिलामेट्रोस्थानकं आगामीसूचनां यावत् निरुद्धं भविष्यति, अन्ये सर्वे स्थानकाः सामान्यरूपेण प्रवृत्ताः सन्ति।”एषः निर्णयः लालकिलासमीपे जातस्य वाहनविस्फोटस्य अनन्तरं, राष्ट्रियराजधानीदिल्लीमध्ये प्रवृत्तसतर्कता–वर्धनं च एहतियातमूलकं च उपायान् अनुसृत्य कृतः।

दिल्लीमेट्रोरेलनिगमः अवदत् यत् सुरक्षासंस्थाः सोमवासरसायं लालकिलासमीपे जातं विस्फोटं अन्विषन्ति, तेनैव कारणेन स्थानकं अस्थायिनिरुद्धं कृतम्। अस्मिन् विस्फोटे तावत् त्रयोदशजनाः मृताः, अन्ये च कतिपयाः आहताः अभवन्।

उल्लेखनीयं यत् दिल्लीमेट्रो–वायलेट्–रेखायां स्थितं एतत् स्थानकं ऐतिहासिकलालकिलस्य, जाममस्जिदस्य, च व्यस्तचाँदनीचोक्–प्रदेशस्य च प्रमुखं प्रवेशद्वाररूपेण कार्यं करोति। अस्य अस्थायिनिरोधनात् पुरानदिल्लीं प्रति गच्छतां नित्ययात्रिकानां पर्यटकानां च गमनागमनं प्रभावितं भविष्यतीति अपेक्ष्यते।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता