Enter your Email Address to subscribe to our newsletters

- समाजः, परिवारः, न्यायः, धर्मः, राजनीतिः, समाजः, अंताराष्ट्रियः इत्येषु संबंधेषु अपि भविष्यति चर्चा
वाराणसी,13 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां त्रिदिवसीया अन्तर्राष्ट्रीयसंगोष्ठी “काशीशब्दोत्सवः २०२५” इत्यस्य आरम्भः नवम्बरमासस्य षोडशदिनाङ्कात् काशीहिन्दुविश्वविद्यालयस्य स्वातन्त्र्यभवनसभागारे भविष्यति। अस्मिन् संगोष्ठ्यां मुख्यतया समाजपरिवारन्यायदर्मराजनीतिसमाजान्ताराष्ट्रीयसम्बन्धसाहित्यकला चलच्चित्रं च इत्यादिषु भारतीयपरिप्रेक्ष्ये विषयेषु चर्चाः भविष्यन्ति।
संगोष्ठ्याः पूर्वतयारीपर्यवेक्षणं गुरुवासरे लङ्कास्थिते विश्वसंवादकेन्द्रे राष्ट्रधर्मपत्रिकायाः निदेशकः कार्यक्रमस्य संरक्षकः च मनोजकान्तेन कृतम्। अस्मिन् बैठके प्रबुद्धजनाः नगरस्य सर्वेषां विश्वविद्यालयानां प्रमुखशिक्षकाः विद्यार्थीगणः आयोजनस्य विभिन्नसमितिषु संलग्नाः सदस्याश्च स्वतत्पर्ययाः प्रस्तुता अभवन्।
सभायां आयोजनसम्बद्धानां विविधकर्तव्यानां निर्धारणं, संगोष्ठ्याः सत्रविभागानां प्रमुखविषयानां च तेषां अनुरूपं वर्तमानस्वरूपं तथा तैयारीसंबद्धाः चुनौतयः अपि चर्चिताः। अस्य आयोजनस्य अवसरि देशविदेशाभ्यागताः विख्यातविद्वांसः कलाकाराश्च समागमिष्यन्ति। देशस्य प्रतिष्ठितसंस्थाः समितयश्च अस्मिन् संगोष्ठ्यां सहभागित्वं प्रस्तुतीं च करिष्यन्ति।
संगोष्ठ्यां गुणवत्तादृष्ट्या देशभरात् प्राप्तानि प्रमुखानि एकशतपञ्चाशत् (१५०) चयनितानि शोधपत्राणि अपि प्रस्तुतानि भविष्यन्ति। सभायाः रूपरेखां डॉ.हरेंद्ररायः, संगोष्ठ्याः विवरणं डॉ.दिनेशपाठकः, प्रबुद्धप्रबोधनं च मनोजकान्तः — “काशीशब्दोत्सवस्य” संरक्षकः — कृतवान्। “काशीशब्दोत्सवः” इत्यस्य आयोजनं काशीहिन्दुविश्वविद्यालयस्य संस्कृतविभागस्य विश्वसंवादकेन्द्रस्य च संयुक्ततत्त्वावधानेन क्रियते।
-------------
हिन्दुस्थान समाचार