मार्गपरिवहनमन्त्रालयेन विशेष-अभियाने अभूतपूर्वं कार्यं — १८,६१६ सञ्चिकानां समीक्षा कृता।
नवदेहली, 13 नवम्बरमासः (हि.स.)। मार्गपरिवहनमन्त्रालयेन अक्तुबरमासे सम्पन्ने विशेष-अभियाने अन्तर्गतं १८,६१६ पुरातनसञ्चिकानां समाधानं कृतम्। तदानीं १५ सहस्राधिकेषु स्थलेषु — कार्यालयेषु, राजमार्गेषु, शुल्कनिवेशनकक्षेषु , बसनिवर्तनस्थलेषु, भोजनशालासु
सड़क परिवहन मंत्रालय ने विशेष अभियान में रिकॉर्ड, 18,616 फाइलों की समीक्षा की


नवदेहली, 13 नवम्बरमासः (हि.स.)।

मार्गपरिवहनमन्त्रालयेन अक्तुबरमासे सम्पन्ने विशेष-अभियाने अन्तर्गतं १८,६१६ पुरातनसञ्चिकानां समाधानं कृतम्। तदानीं १५ सहस्राधिकेषु स्थलेषु — कार्यालयेषु, राजमार्गेषु, शुल्कनिवेशनकक्षेषु , बसनिवर्तनस्थलेषु, भोजनशालासु , उड्डयनसेतुषु च — स्वच्छता-अभियानम् अपि सञ्चालितम्।

सह १,१४७ जनगन्धनानां तथा ५२२ याचनानां मध्ये ९९ प्रतिशतं समाधानं सम्पन्नम्।

मन्त्रालयस्य अनुसारं, अस्य अभियानस्य अन्तर्गतं १८,६१६ पुरातनसञ्चिकानां समीक्षा कृत्वा अभिलेखव्यवस्थापनस्य शतप्रतिशतं लक्ष्यं प्राप्तम्।

मन्त्रालयेन तस्य उपसंस्थाभिः सह १५ सहस्राधिकेषु स्थलेषु स्वच्छता-अभियानम् आरब्धम्, येषु कार्यालयाः, निर्माणस्थलानि, राष्ट्रीयराजमार्गाः, शुल्कनिवेशनकक्षाः, बसनिवर्तनस्थलानि, भोजनशालाः, उड्डयनसेतवः च समाविष्टाः आसन्।

जनगन्धनासु (१,१४७) तथा याचनानां (५२२) निस्तारणे ९९ प्रतिशतं लक्ष्यं प्राप्तम्।

एवञ्च ७३० दीर्घकालं लंबितेषु सांसदसंदर्भेषु ६७१ अर्थात् ९२ प्रतिशतं निस्तारितम्।

प्रधानमन्त्र्यकार्यालयात् प्राप्तेषु १३ संदर्भेषु दशसमाधानानि कृतानि। अभियानकाले २२० वर्गफुटाधिकं कार्यालयप्रदेशं रिक्तीकृतम्, ६४० किलोग्रामाधिकः कर्कटोऽपि निस्तारितः।

स्थानव्यवस्थापनं सौन्दर्यवर्धनं च अपि कृतम्। नवाचाररूपेण “दूषितराजमार्ग-शौचालयस्य निवेदनं कुर्वन्तु, पुरस्कारं लभध्वम्” इति योजना आरब्धा,

यया नागरिकाः स्वच्छतानिरीक्षणे संलग्नाः अभवन्। अभियानस्य प्रगतेः साप्ताहिकसमीक्षा मंत्रालयस्य सचिवेन कृता, प्रमुख-अधिकारी सर्वाभ्यः संस्थाभ्यः सह निरन्तरसंवादं धारितवान्।

वरिष्ठाधिकारिणः क्षेत्रे निरीक्षणानि कृतानि, येषु कार्यालयपरिसराः, कर्कटनिर्वहणम्, शुल्कनिवेशनकक्षाः, उड्डयनसेतवः, मार्गगर्ताः (गड्ढाः), प्रकाशव्यवस्था च निरीक्षिता।

---

हिन्दुस्थान समाचार / Dheeraj Maithani