Enter your Email Address to subscribe to our newsletters

वर्तमान युगे जाम्भोजेः सिद्धांतानाम् अनुकरणस्य महत्ती आवश्यकता : स्वामी रामांनदःहिसार, 13 नवंबरमासः (हि.स.)।
श्रीगुरुजम्भेश्वरभगवतः चत्वार्णशतानां नवत्यधिकानां (४९०) महानिर्वाणदिनोत्सवस्य अवसरं प्रति लालासरसाथरीस्थले सन्तसमागमो वार्षिको मेला च आयोजितः। पर्यावरणस्य जीवसंग्रक्षणस्य च सिद्धान्तान् प्रतिष्ठापयितुं प्रवृत्तः श्रीजाम्भोजीभगवतः निर्वाणदिनस्य निमित्तं निर्वाणस्थले लालासरसाथरीमध्ये हवने सम्पन्ने आगतसन्ताः स्वस्वप्रवचनानि प्रदत्तवन्तः।
लालासरसाथरीमहन्ता डॉ. स्वामीसच्चिदानन्दमहाराजः गुरुवासरे अवदत् यत् बिष्णोईसमाजे मार्गशीर्षमासस्य कृष्णनवमी चिलतनवमी इति कथ्यते। अस्मिन् दिने श्रीजाम्भोजीभगवतः पुण्यस्मरणं महोत्सवरूपेण आचर्यते। सः सब्दवाण्याः वचनम् उद्धृत्य उक्तवान् यद् “अनैकानैकचलंतादीठा कलिकामाणसकोनविचारूं” इति। सः अवदत् यत् अस्मिन् धराधाम्नि अनेकाः दिव्याः महापुरुषाः आविर्भूताः, स्वस्वकर्तव्यं सम्पाद्य लीलासंवरणं कृतवन्तः।
मुख्यामठाधीशः मुकामपीठस्य स्वामीरामानन्दाचार्यः अभ्यधात् यत् अद्यतनयुगे श्रीजाम्भोजीभगवतः सिद्धान्तानां अनुकरणं अत्यावश्यकम्। बिष्णोईसमाजः शताब्द्यः पर्यन्तं जलजंगलभूमेः संरक्षणे समर्पितः आसीत्। वैचारिकदूषणात् विमुक्तिः अपि अत्यावश्यकतमेति।
समराथलमहन्तः रामकिशनदासमहाराजः श्रद्धालुभ्यः पाहलं दत्वा नशामुक्तेः पर्यावरणरक्षणस्य च संकल्पं दत्तवान्। योगीलालदासमहाराजः “सादं भोजनं स्वस्थजीवनम्” इति सूत्रं प्रतिपाद्य, स्वास्थ्यं प्रथमं सुखं इति अवदत्।
रामेश्वरदासः समराथलात्, शान्तानन्दः श्रीकोलायतात्, कृष्णानन्दः बद्रीनाथात्, केशवानन्दाचार्यः, रमतानन्दाचार्यः मुकामात्, स्वामीसत्यनारायणः, स्वरूपानन्दः फिटकासनितः च अन्ये च सन्ताः भारतवर्षस्य विविधान् प्रदेशान् आगत्य स्वविचारान् प्रकाशितवन्तः।
प्रतिवर्षं अस्मिन् दिवसे लालासरवार्षिके मेले देशभरात् सहस्रशः श्रद्धालवः आगच्छन्ति।
हिन्दुस्थान समाचार