शिशु मंदिरे सप्तशक्ति संगमस्य जातम् आयोजनम्
पूर्वी चंपारणम्,13 नवंबरमासः (हि.स.)।जनपदस्य रक्सौलक्षेत्रे ब्लॉकमार्गे स्थिते राजेशमस्करा सरस्वतीशिशुमन्दिरे विद्याभारती अखिलभारतीयशिक्षासंस्थान इत्यनेन “नारीशक्तेः विविधस्वरूपप्रदर्शनं, स्त्रीणां आत्मविश्वासवर्धनं, नेतृत्वक्षमतायाः प्रोत्साहनं” इ
सप्तशक्ति संगम में भाग लेते अतिथि


पूर्वी चंपारणम्,13 नवंबरमासः (हि.स.)।जनपदस्य रक्सौलक्षेत्रे ब्लॉकमार्गे स्थिते राजेशमस्करा सरस्वतीशिशुमन्दिरे विद्याभारती अखिलभारतीयशिक्षासंस्थान इत्यनेन “नारीशक्तेः विविधस्वरूपप्रदर्शनं, स्त्रीणां आत्मविश्वासवर्धनं, नेतृत्वक्षमतायाः प्रोत्साहनं” इत्यस्य उद्देश्येन सप्तशक्तिसंगम इति कार्यक्रमः आयोजितः।

कार्यक्रमस्य आरम्भः दीपप्रज्वलनम्, भारतमातापूजनं, विद्यादेवीमाता सरस्वत्याः वन्दनं च कृत्वा अभवत्। कार्यक्रमस्य संयोजिका अध्यक्षाच सरितादेवी आगतान् अतिथीन् चन्दनैः, पुष्पमालाभिः, अङ्गवस्त्रैः च सत्कारं कृत्वा स्वागतम् अकरोत्। अनन्तरं सा कार्यक्रमस्य विषये विस्तीर्णं विवरणं प्रदत्तवती।

कार्यक्रमे अतिथिपरिचयः स्वागतं च अर्चनाश्रीवास्तवेना कृतम्। प्रस्तावना मेनकावर्मया, प्रश्नोत्तरी सुधामिश्रया, मंचसंवहनं मम्ताकुमार्याः चौबे इत्यस्याः द्वारा कृतम्।

कार्यक्रमे बालिकाः लोकसंस्कृत्याधारितानि मनोहराणि नृत्यगीतप्रदर्शनानि अकरोत्।

मुख्यवक्ता रूपेण उपस्थिताया मधुशर्माया भाषणम् अभवत्। सा कुटुम्बप्रबोधनं, पर्यावरणसंरक्षणं, समाजे वर्धमानां अपसंस्कृतिं, नारीसशक्तीकरणं च विषये विमर्शं कृत्वा उक्तवती — “नारीणां मध्ये अनन्ताः संभावनाः सन्ति, याः अस्मिन सशक्तीकरणयुगे अवश्यं ज्ञातव्या, पोषयितव्याश्च।”

सा अवदत् यत् “देशस्य जगतश्च वर्तमानस्थितीनां, चुनौतिनां च समाधानार्थं, ‘एकभारत श्रेष्ठभारत समर्थभारत’ इत्यस्य संकल्पस्य साकारार्थं मातृशक्तेः सप्तशक्तिः जाग्रेय, तदा एव समाजपरिवर्तनस्य संकल्पः सिद्धिं गमिष्यति।”

कुटुम्बप्रबोधनस्य विषये सा व्याख्याय अवदत् — “कुटुम्बप्रबोधनम् इत्यस्य शाब्दिकः अर्थः अस्ति यत् परिवारस्य सर्वे सदस्याः एकत्र मिलित्वा भारतीयसंस्कृतिं, परम्परां, मूल्यानि च पुनर्जीवनाय प्रयतन्ताम्। एतेन सशक्तस्य उत्तमस्य च समाजस्य निर्माणे गमनं शक्यते।”

मधुशर्मा अवदत् — “सप्तशक्तिसंगम इत्यादयः कार्यक्रमाः नारीणां नेतृत्वविकासाय, संगठनशक्तिवृद्धये च उत्कृष्टं मंचं प्रददाति।”

कार्यक्रमस्य अन्ते अध्यक्षीयं भाषणं धन्यवादप्रदर्शनं च सरितादेव्याः द्वारा कृतम्।

अस्मिन् अवसरि विद्यामन्दिरस्य चम्पारणविभागनिरीक्षकः ललितकुमारयादवः, शिशुमन्दिररक्सौलस्य संरक्षकः डॉ. प्रो. राजकिशोरसिंहः, विद्यालयप्रबन्धकारिणीसमित्याः अध्यक्षः प्रो. जगदीशप्रसादः, उपाध्यक्षः रजनीशप्रियदर्शी, सचिवः अवधेशकुमारसिंहः, कोषाध्यक्षः गिरधारीलालश्रीवास्तवः, प्रधानाचार्यः राजूकुशवाहः, आचार्यः रमेशकुमारपाण्डेयः, गगनदेवपाठकः, सुमितकुमाराचार्यः, चकियाशिशुमन्दिरप्रधानाचार्यः रंजनकुमारः, अनिलकुमारचौधरी, घोड़ासहनशिशुमन्दिरप्रधानाचार्यः प्रकाशठाकुरः, युगलकिशोरपाण्डेयः च सहिताः अनेकाः अभिभावकाः शताधिकाः महिलाश्च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार