Enter your Email Address to subscribe to our newsletters

जगदलपुरम्, 13 नवंबरमासः (हि.स.)। बस्तर–जिलामुख्यालये दिगम्बरजैन–समाजः स्वमन्दिरे जैनतीर्थङ्कर–पार्श्वनाथस्य नूतनप्रतिमायाः प्रतिष्ठां कर्तुम् उद्यतः अस्ति। समाजाध्यक्षः अनुप–जैन नामकः गुरुवासरे उक्तवान् यत् प्रतिष्ठापूर्वं प्रतिमायाः नगरागमनसमये चतुर्दश–नवम्बरदिनाङ्के द्विवादनत्रिंशत् मिनिटे महाराजश्री–सन्निधौ कोतवालीचतुष्कात् आरभ्य १००८–श्री–पारसनाथ–मन्दिरं प्रति शोभायात्रा भविष्यति। तीर्थङ्कर–पार्श्वनाथस्य नूतना प्रतिमा मध्यप्रदेशस्थे बर्गिनगरे सम्पन्ने पंचकल्याणके आचार्यश्री–समयसागर–मुनिना मन्त्रौच्चारणपूर्वकं प्रेषिता अस्ति। समाजसचिवः संजयजैनः समाजस्य सदस्यान् प्रति निवेदनं कृतवान् यत् यथाशक्ति अधिकसंख्यया शोभायात्रायां सम्मिलित्वा कार्यक्रमं आनन्दमयं कुर्वन्तु।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता