Enter your Email Address to subscribe to our newsletters

वॉशिंगटनम्, 13 नवंबरमासः (हि.स.)। प्रायः एकचत्वारिंशद्दिनानि यावत् अमेरिकादेशे प्रचलितः शटडाउनः समाप्तेः समीपे अस्ति। बुधवासरे अमेरिकीयसांसदाः शटडाउनं समाप्तुं पक्षे मतदानं कृतवन्तः। राष्ट्रपतिः डोनाल्ड ट्रंपस्य हस्ताक्षरैः सह एषः विधेयकः नियमरूपं प्राप्स्यति तथा च सरकारीकार्यप्रवृत्तेः पुनः आरम्भस्य मार्गः स्वच्छः भविष्यति।
शटडाउनस्य कारणेन लक्षाधिकाः संघीयकर्मचारिणः वेतनं च खाद्यसहायां च बाधितां दृष्टवन्तः, सह एव आकाशयानयात्रासु महान् विलम्बः अपि दृष्टः। अमेरिकायाः सरकारीशटडाउनं समाप्तुं प्रस्थापितं विधेयकं बुधवासरे कांग्रेसद्वारा अनुमोदितं जातम्। प्रतिनिधिगृहेन बाधितखाद्यसहायां पुनः आरम्भयितुं, संघीयकर्मचारिणां वेतनं दातुं, आकाशयानयातायातनियन्त्रणप्रणालीं च पुनर्जीवयितुं कृते मतदानं कृतम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता