Enter your Email Address to subscribe to our newsletters

नवदेहली, 13 नवम्बरमासः (हि.स.)। भारतस्य उपराष्ट्रपतिः सी.पी. राधाकृष्णन् शुक्रवासरे आन्ध्रप्रदेशस्य विशाखापत्तने आयोजिते त्रिंशत्तमे (३०वें) सी.आई.आई. — भारतीय-उद्योगपरिसंघस्य सन्धिशिखरसम्मेलने २०२५ तमे वर्षे उद्घाटन-अधिवेशने मुख्य-अतिथिरूपेण सहभागं करिष्यति।
उपराष्ट्रपतिकार्यालयेन गुरुवासरे सूचितं यत् चतुर्दशात् पञ्चदश-नवम्बरपर्यन्तम् आयोजितं द्विदिवसीयं तत् शिखर-सम्मेलनम्
भारतीय-उद्योगपरिसंघेन (CII), वाणिज्य-औद्योगविभागस्य उद्योग-आन्तरिकव्यापारप्रसारण-
विभागेन (DPIIT), तथा आन्ध्रप्रदेश-सर्वकारेण सह संयुक्तरूपेण आयोज्यते।
एतत् सीआईआई-शिखरसम्मेलनम् व्यापरनिवेशयोः भविष्यं निरूपयितुं विचारकान्, नीतिनिर्मातॄन्, उद्योगक्षेत्रस्य प्रमुखान्, वैश्विकसहभागिनः च एकत्रं संयोजयिष्यति। अस्य शिखरसम्मेलनस्य विषयः अस्ति — “प्रौद्योगिकी, विश्वासः च व्यापारः — नूतन-भू-आर्थिक-व्यवस्थायाः मार्गदर्शनम्।”
अस्मिन् प्रधान-अनुष्ठाने ४५ अधिवेशनानि तथा ७२ अन्तर्राष्ट्रीयवक्तारः भागं ग्रहीष्यन्ति। एतस्मिन् सम्मेलनमध्ये ४५ देशेभ्यः आगताः ३०० विदेशी-प्रतिभागिनः, तथा मिलित्वा २,५०० प्रतिनिधयः सम्मिलिता: भविष्यन्ति।
---
हिन्दुस्थान समाचार / Dheeraj Maithani