Enter your Email Address to subscribe to our newsletters

नवदेहली, 13 नवंबरमासः (हि.स.)।
उपराष्ट्रपतिः सी.पी. राधाकृष्णनः शुक्रवारदिने अत्र विज्ञानभवन आयोजिते भारतीयदूरसंचारसेवायाः हीरकजयंतीसमारोहे मुख्यातिथिरूपेण सहभागी भविष्यति। उपराष्ट्रपतिसचिवालयेन गुरुवासरे उक्तं यत्, अयं समारोहः भारतीयदूरसंचारसेवायाः स्थापनेः षष्टितमवर्षपूर्तेः अवसरं प्रति आचर्यते। वर्षे 1965 गठिता एषा सेवा केन्द्रसरकारस्य एकं संगठितनागरिकसेवा-वर्गं अस्ति, यस्याः स्थापना दूरसंचारक्षेत्रे तांत्रिक-प्रशासकीयआवश्यकतानां पूर्त्यर्थं कृताऽभवत्। आई.टी.एस्. अधिकारी देशव्यापिनि संचार-जनजाल-सम्बद्धसूचनाप्रौद्योगिकी तथा डिजिटलीयसेवाक्षेत्रेषु शासनस्य नानाप्रकाराणां नीतिप्रणालीनां कार्यक्रमाणां च क्रियान्वयने महत्वपूर्णं योगदानं वहन्ति। हीरकजयंतीसमारोहः ‘आजादीका अमृतमहोत्सवः’ इत्यस्य भावनया प्रेरितः, भारतस्य दूरसंचारयात्रायाः, तत्र च आई.टी.एस्. अधिकारिणां योगदानस्य सम्मानं प्रदातुं अवसरं दास्यति।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता