उत्तर प्रदेशे डाटागवर्नेंस डिजिटल इनोवेशन निर्मितः पारदर्शीप्रशासनस्य आधारः
लखनऊ, 13 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यं स्मार्टशासनस्य डिजिटलपरिवर्तनस्य च नूतनयुगे प्रविशति। अत्र समावेशीविकासः भविष्याधारिततन्त्रज्ञानस्य प्रयोगेन व्यवहाररूपेण स्थापितः। राज्ये डाटाआधारितप्रशासनम् शासकीयकार्यप्रणालीं अधिकं पारदर्शिनीं, शीघ्र
मुख्यमंत्री योगी


लखनऊ, 13 नवंबरमासः (हि.स.)।उत्तरप्रदेशराज्यं स्मार्टशासनस्य डिजिटलपरिवर्तनस्य च नूतनयुगे प्रविशति। अत्र समावेशीविकासः भविष्याधारिततन्त्रज्ञानस्य प्रयोगेन व्यवहाररूपेण स्थापितः। राज्ये डाटाआधारितप्रशासनम् शासकीयकार्यप्रणालीं अधिकं पारदर्शिनीं, शीघ्रतरां, उत्तरदायिनीं च कृतवान्। तथा तन्त्रज्ञानस्य व्यापकप्रयोगेन सेवासु वास्तविकसमये निरीक्षणं साध्यं जातम्, येन सामान्यजनाः योजनानां लाभं प्रत्यक्षरूपेण विना विलम्बं प्राप्नुवन्ति।

एतस्मिन् सम्बन्धे राज्यसरकारस्य प्रवक्त्रा उक्तं यत् राज्ये स्मार्टशासनस्य अन्तर्गतं डिजिटलप्रक्रियाणां शीघ्रविस्तारः अभवत्। विविधेषु शासकीयविभागेषु ऑनलाइननिरीक्षणं डिजिटलसञ्चिकानुयोजनम् डाटाआधारितनिर्णयाश्च प्रशासनिकदक्षतां नूतनशिखरं नीतवन्तः। एते उपक्रमाः ग्राम्यप्रदेशेषु अपि सेवासौकर्यं सुनिश्चितवन्तः, येन उत्तरप्रदेशः राष्ट्रव्यापी डिजिटलशासनस्य उल्लेखनीयरूपं आदर्शो जातः।

शासकीययोजनानां क्रियान्वयनस्य, विद्यालयानां प्रदर्शनस्य, अभ्यर्थनानां निस्तारणस्य, सेवाउपलब्धेः च निरीक्षणे SMS, WhatsApp, Live Dashboard इत्यादीनां प्रयोगः निर्णायकः सिद्धः। प्रवक्त्रा उक्तं यत् स्मार्टशासनस्य डिजिटलपरिवर्तनस्य च माध्यमेन विद्यालयेषु शैक्षिकविवरस्य परिचयः, योजनानां वितरणस्य पुष्टि, अभ्यर्थनानां त्वरितनिस्तारणं च सम्भवम् अभवत्।

त्वरितसंवादेन वास्तविकसमयडाटेन च अधिकारिणां कार्यपद्धतिः अधिकं प्रभाववती अभवत्, लक्ष्यसिद्ध्यर्थं तान् उत्तरदायिनः अपि कृतवन्ति। मिडडे मील कार्यक्रमे QR कोड, Google Sheets, Excel, UDISE, Telegraph, Google Forms इत्यादिदिजिटलसाधनानां प्रयोगेन व्यवस्था अधिकं पारदर्शिनी विश्वसनीया च अभवत्। एतेषां साधनानां द्वारा भोजनवितरणस्य निरीक्षणम्, उपस्थिति–सत्यापनं, गुणवत्तानियन्त्रणं च शीघ्रं सुलभं जातम्, येन अनियमिततासु नियन्त्रणं लब्धम्।

तन्त्रज्ञाननवोन्मेषैः एतदपि सुनिश्चितं यत् बालकाः समये सम्यकरूपेण च योजनालाभं प्राप्नुवन्ति। उल्लेखनीयम् यत् स्मार्टपुलिसिंग, चिकित्सानवोन्मेषः, कृषि–शैक्षणिकसुधाराः वा — सर्वत्र उत्तरप्रदेशः कृत्रिमबुद्धेः आधुनिकतन्त्रज्ञानस्य च समन्वयेन समाजस्य अन्त्यपदस्थजनानां प्रति सरकारस्य लाभप्रदायीयोजनानां प्रसारं सुनिश्चितं करोति।

हिन्दुस्थान समाचार