Enter your Email Address to subscribe to our newsletters

बीकानेरम्, 14 नवंबरमासः (हि.स.)। राजकीय-डूंगर-काॅलिजस्य प्राचार्यः डा॰ राजेन्द्रपुरोहितः इण्डियन् सोसायटी फॉर रेडिएशन् बायोलॉजी (ISRB) इत्यस्य राष्ट्रीयाध्यक्षपदे निर्वाचितः अभवत्। निर्वाचन-अधिकारी डा॰ शिशिरशर्मा इत्यनेन उक्तं यत् देशस्य सर्वत्रस्थितानां विकिरण-विज्ञानिनां कर्कट-रोग-विशेषज्ञानां च अस्य प्रतिष्ठित-संस्थायाः निर्वाचनमध्ये डा॰ पुरोहितः निर्विरोधम् अध्यक्षपदे अभ्युक्तः।
निर्वाचन-परिणामानुसारम् जयपुर-नगरस्य अरुणचोगले मंगलूरुनगर्याः डा॰ सुचिताकुमारी च उपाध्यक्षौ अभवताम्। वडोदरा-नगरस्थः डा॰ पुनीतबागडी सचिवपदे, तथा डूंगर-काॅलिजस्य सहायक-आचार्या डा॰ अर्चनापुरोहित कोषाध्यक्षपदे निर्वाचिता अभवत्।
अस्य अतिरिक्तं देशस्य विविधानां प्रमुख-संस्थापनानां दश कार्यकारिणी-सदस्याः अपि अभ्युक्ताः, येषां मध्ये—
जयपुरस्य डा॰ वन्दनानूनिया, कोलकातानगर्याः डा॰ विभाटनडन, मुम्बैनगरस्य डा॰ एच्. एन्. भीलवाडे तथा डा॰ कमलेश् मुम्ब्रेकर, मनिपालस्य डा॰ रावी लखनऊ-नगर्याः प्रो॰ सीमाकुमारी एवं डा॰ तीर्थराजशर्मा, राजकोटस्य डा॰ कान्तादेवी अरुणाचलम् मंगलूरुनगरस्य डा॰ विशाखकेडलिया, तथा रांची-नगरस्य प्रो॰ मनोजकुमार सम्मिलिताः सन्ति।
उल्लेखनीयम् यत् डा॰ पुरोहितः सम्प्रति सोसायट्याः सचिवरूपेण कार्यरतः अस्ति, पूर्वं च कोषाध्यक्षपदस्य दायित्वम् अपि वहितवान्। स्वस्य नूतन-कार्यकाले विषये सः अवदत् यत् जर्दा, , धुम्रदण्डिका, धूम्रपानादिभिः जन्यः कर्कट-रोगः विषये समाजस्य सर्वेषां वर्गेषु जनजागरण-अभियानम् आरप्स्यते। सह एव पोदीना, हरिद्रा, ग्वारपाठा, आमलकम्, सहजन्मूलकानि इत्यादीनां औषधीय-पादपानां उपयोगिता-विषये राष्ट्रीय-अन्तर्राष्ट्रीय-सम्मेलनानाम् आयोजनस्य योजना अपि अस्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता