गुजरातस्य सूरते बिहारीसमाजेन प्रधानमंत्रिणो मोदिनः उत्तरीयं प्रसार्य विहितं स्वागतम्
मोदी अवदत्-बिहारी जगते राजनीतिं शिक्षितुमर्हति, कांग्रेसपक्षः पतनं प्रति अग्रसरः सूरतम्, 15 नवंबरमासः (हि.स.)।गुजरातस्य नर्मदा जनपदस्य डेडियापाडा नामकस्थात् कार्यक्रमात् अद्य प्रत्यागच्छन् प्रधानमन्त्रिणा नरेन्द्रेण मोदिना सूरत विमानस्थानस्य बहिः
सूरत में बिहारी समाज का अविवादन स्वीकार करते मोदी


सूरत में बिहारी समाज का अविवादन स्वीकार करते मोदी


सूरत में बिहारी समाज का अविवादन स्वीकार करते मोदी


मोदी अवदत्-बिहारी जगते राजनीतिं शिक्षितुमर्हति, कांग्रेसपक्षः पतनं प्रति अग्रसरः

सूरतम्, 15 नवंबरमासः (हि.स.)।गुजरातस्य नर्मदा जनपदस्य डेडियापाडा नामकस्थात् कार्यक्रमात् अद्य प्रत्यागच्छन् प्रधानमन्त्रिणा नरेन्द्रेण मोदिना सूरत विमानस्थानस्य बहिः एकत्रितानां बिहारप्रदेशीयप्रवासिनां सङ्गमस्थले आगत्य दर्शनं कृतम्। बहुसंख्ये उपस्थिते बिहारी समाजे गम्छान् लोलयन् प्रधानमन्त्रिणः पारम्परिकं भव्यं स्वागतं कृतम्।

प्रधानमन्त्री मोदी अवदत् यत् बिहारीजनैः विना तस्य गुजरातयात्रा अपूर्णेव स्यात् तस्मात् बिहारस्य राष्ट्रीय जनतान्त्रिक गठबन्धनस्य प्रचण्डविजयस्य अनन्तरं सः विशेषतया भवन्तान् द्रष्टुं सूरतम् आगतः। सः बिहारीजनान् अत्यन्तं प्रशंस्य कांग्रेसनामकदले प्रति तीक्ष्णां टीकां च कृतवान्।

सूरतनिवासिभिः बिहारीभ्रातृभिः सह मिलनं मम कर्तव्यं इति मोदी

प्रधानमन्त्री आरम्भे एव अवदत् यत् बिहारगुजरातयोः मध्ये प्राचीनकालेभ्य एव आत्मीयसम्बन्धाः सन्ति। “बिहारस्य लोकान् द्रष्टुं विना गच्छन् मे यात्रा अपूर्णा इव मेने तस्मात् सूरतनिवासिनां मम बिहारीभ्रातृणां अधिकारः अस्ति यत् अहं भविष्य विजयउत्सवस्य क्षणान् भवद्भिः सह साझयामि।”

असौ अवदत् यत् प्राते डेडियापाडं गच्छन् समये सहचरीयजनैः उच्यते स्म यत् बिहारीस्य जनाः भवन्तं पञ्चदशमिनिट् यावत् द्रष्टुम् इच्छन्ति। “मया उक्तं अवश्यम् मिलामि” इति। ततः सः बिहारजनैः सह मिलितवान्। दूरपर्यन्तं विस्तीर्णा जनता सौराष्ट्रे बिहारसमाजस्य महान् योगदानं सम्मानं च सूचयति इति सः अवदत्।

“भारतात् सर्वे प्रदेशाः सर्वे भाषाभाषिणश्च अस्माकं पूजनीयाः। बिहारस्य प्रतिभा सामर्थ्यं च मानयितुं अस्माकं संस्कारः अस्ति।” गुजरातसरकारा च पूर्वं बिहारस्थापनाशताब्द्युत्सवे सूरतनगरे महद् उत्सवं कृत्वा बिहारस्य शतं प्रतिभाशालिनः जनान् सार्वजनिकं सम्मानं दत्तवती इति अपि सः उक्तवान्।

बिहारस्य जनाः राजनीति शिक्षयितुं समर्थाः

प्रधानमन्त्री बिहारचुनावविषये अवदत् यत् “सूरतवासिनः बिहारस्य भ्रातरः प्रत्येकक्षणे परिणामानां प्रति सजागाः आसन्। बिहारस्य जनान् राजनीति बोधयितुं न आवश्यकम्, ते जगतः राजनीति अपि शिक्षयितुं समर्थाः।” सः अवदत् यत् “एनडीए महागठबन्धनयोः मध्ये दशप्रतिशतं मतभेदः अति महान् भेदः अस्ति। एषः बिहारजनस्य एकमुखीभावं सूचयति यस्य मूलमुद्दः विकासः आसीत्।”

“अद्य बिहारप्रदेशे विकासलालसा सर्वत्र अनुभवनीयास्ति” इति च अवदत्।

मोदिना कांग्रेसदले प्रति निशितं प्रहारः

प्रधानमन्त्री कांग्रेसनेतृत्वं तेषां च आचरणं कुप्रतिपद्य अवदत् “कांग्रेसदलं रक्षितुं को अपि समर्थः नास्ति। दीर्घकालपर्यन्तं राज्ये स्थित्वा अधुना येषां अवस्था जाता सा तेषां आत्मपरीक्षणस्य विषयः इति।”

तेषां पराजयस्य कारणं ते न स्वसहचरान् बोधयितुं न कार्यकर्तॄन् समझयितुं शक्नुवन्ति केवलं निमित्तानि, कदाचित् ईवीएम कदाचित् निर्वाचनआयोग कदाचित् मतदातापञ्जी इति आरोपयन्ति। अन्यपक्षीयदलानि संसदम् अपि न प्रवर्तयितुम् इच्छन्ति इति च सः उक्तवान्।

येषां चिन्ता न युवा उत्थानाय ते युवा न स्वीकुर्युः

प्रधानमन्त्री यूनः प्रति अवदत् “विकसितभारत आत्मनिर्भरभारत स्वदेशी इत्यादयः शब्दाः विपक्षानां वक्त्रात् न निष्पद्यन्ते यतः तेषां प्राथमिकता राष्ट्रं नास्ति।” येषां दृष्टिः राष्ट्रनवयुवकविकासे न शुभा ते भविष्ये युवाभिः कदापि न स्वीकृताः इति सः अवदत्।

एतेन कार्यक्रमेन विमानस्थानस्य बहिः सहस्रशः बिहारीजनाः उपस्थिताः आसन्। तत्र विशेषतया केन्द्रीय जलशक्तिमन्त्री च बिहारसहप्रभारी सी आर पाटिल गुजरातस्य उपमुख्यमन्त्री हर्ष संघवी मन्त्री प्रफुल्ल पानसेरिया सूरतसांसदः मुकेश दलाल महापौरः दक्षेस मवानी तथा सूरतनगरस्य विधायकाः पदाधिकारिणः पार्षदाश्च उपस्थिताः आसन्।

-------

हिन्दुस्थान समाचार