Enter your Email Address to subscribe to our newsletters



नागपुरनगरम्, 15 नवम्बरमासः (हि.स.) कान्फ़ेडरेशन ऑफ ऑल इण्डिया ट्रेडर्स् इत्यस्य आश्रये कान्फ़ेडरेशन ऑफ ऑल इण्डिया ट्रेडर्स् (सी.ए.ऐ.टी.) तथा स्वदेशी जागरण मञ्च् इत्येताभ्यां शनिवासरे एतस्मात् राष्ट्रव्यापि स्वदेशी सङ्कल्पयात्रा आरब्धा येन प्रधानमन्त्री नरेन्द्रमोदीवर्यस्य स्वदेशीयं गृह्णीत – आत्मनिर्भरं भारतं निर्मात इत्यस्य स्पष्टम् आह्वानम् जनसामान्यं प्रति नीयते। सी.ए.ऐ.टी. अपि नागपुर-नगरस्य प्रसिद्धायां सीताबर्डी-हाट-मध्ये स्वदेशी-प्रतिज्ञां स्वीकृत्य, भारतीयव्यापारं सुदृढं कर्तुं, स्वदेशीय-उत्पादान् प्रवर्धयितुं च अस्माकं प्रतिबद्धतां पुनरुद्घाटयत्।
कार्यक्रमस्य शुभारम्भः सांसदेन तथा कैट-राष्ट्रीयमहामन्त्रिणा प्रवीणखण्डेलवालेन, राष्ट्रीयाध्यक्षेन बी.सी. भरतियेन, स्वदेशीजागरणमञ्चस्य राष्ट्रीय-सहसंयोजकेन सतीशकुमार कृषकमोर्चस्य वरिष्ठनेता विपुलत्यागिना च संयुक्तरूपेण कृतः।
सांसदः खण्डेलवालः अवदत् यत् प्रथमचरणे एषा यात्रा महाराष्ट्रस्य विदर्भप्रदेशे, छत्तीसगढे, मध्यप्रदेशे, देहलीमध्ये, राजस्थानप्रदेशे च भ्रमिष्यति; अनन्तरं अन्येषु राज्येषु अपि एते यात्राः प्रचलिष्यन्ति। एषा यात्रा देशस्य नानाराज्येषु समग्रं पञ्चविंशतिसहस्रकिलोमीटरपर्यन्तं मार्गं गमिष्यति। स अवदत्— “अयं रथः केवलं वाहनं न, किन्तु आत्मनिर्भर-भारतस्य रथः अस्ति, यः स्वदेशी-विचारधारायाः, राष्ट्रीयगौरवस्य, आर्थिकस्वातन्त्र्यस्य च प्रतीकः भविष्यति। सर्वे गृहे, सर्वे पण्यालये, प्रत्येकनागरिके च अस्य अभियानस्य सम्बद्धता अस्माकं लक्षणम् अस्ति।”
कैट-महामन्त्री अवदत् यत् अस्य अभियानस्य अन्तर्गते स्वदेशी-संकल्प-यात्रा राष्ट्रस्य सर्वेषु राज्येषु आयोजित्ता भविष्यति। अस्य माध्यमेन प्रधानमन्त्रिणः मोदिनः स्वदेशी-अभियानं देशस्य सर्वेषु कोणे-कोणे पण्यालयेषु नीतुं च व्यापारिणां उपभोक्तॄणां च स्वदेशीभावनायां जागरूकता कार्यवत्ता च कर्तव्या।
अस्य यात्रायाः कालखण्डे नानानगर स्वदेशी-विक्रीणीत–स्वदेशी-क्रीणीत, आत्मनिर्भरभारतं, एकं राष्ट्रं–एकं निर्वाचनम् इत्यादिषु विषये सेमिनार-कार्यशालाः-सम्मेलनेषु च आयोजनं भविष्यति। तेषु व्यापारिणां, छात्राणां, नारिणां, उपभोक्तॄणां, सामाजिक-सांस्कृतिक-संस्थापनां च सहभागिता सुनिश्चितता भविष्यति। अस्य अभियानस्य प्रयोजनम् अस्ति यत् स्वदेशी-विचारं भूमिस्थरपर्यन्तं नीतुं, प्रत्येकं नागरिकं “स्वदेशी-विक्रय–स्वदेशी-क्रय” इति संकल्पेन प्रेरयितुं च।
अस्मिन्नवसरे कैट-छत्तीसगढ-भागस्य अध्यक्षः अमरपरवानी, कैट-मध्यप्रदेश-महामन्त्री राजीवखण्डेलवालः, नागपुर-समीपस्थ-जनपदेषु स्थितानां प्रमुख-व्यापारी-संगठनानां, पेशेवरसंगठनानां, उपभोक्तृसंगठनानां, सामाजिक-सांस्कृतिक-आरडब्ल्यूए-संगठनानां च शतशः वरिष्ठनेतारः उपस्थिताः आसन्।
अतः पूर्वं यदा प्रधानमन्त्रिणा मोदिना डिजिटल-भुगतानस्य आह्वानं कृतम् आसीत्, तदा कैट-संगठनेन देशस्य अनेक-राज्येषु डिजिटल-भुगतान-यात्रा चालिताऽभूत्, या प्रायः द्वाविंशतिसहस्रकिलोमीटरपर्यन्तं पथं गतवती।
हिन्दुस्थान समाचार / अंशु गुप्ता