Enter your Email Address to subscribe to our newsletters

नवदेहली, 15 नवंबरमासः (हि.स.)। दिल्ली-राजधानेः मुख्यमन्त्री रेखागुप्ता इत्यनया अग्नि-सुरक्षा-प्रमाणपत्रस्य नवीकरण-प्रणालीम् ऑनलाइन-रूपेण कृतवती। सा शनिवासरे देहली-राजसचिवालये ‘अग्नि-सुरक्षा-प्रमाणपत्रस्य ऑनलाइन-नवीकरण-पटले’ इत्यस्य शुभारम्भं कृतवती। अस्मिन् विशेषे कार्यक्रमे दिल्ली-सरकारस्य गृहमन्त्री शिक्षा-मन्त्री च आशिष-सूद तथा दिल्ली-अग्निशमन-सेवाया: (डीएफएस्) वरिष्ठ-अधिकारीणः अपि उपस्थिताः। एषः पटलः राष्ट्रीय-सूचना-विज्ञान-केन्द्रस्य (एनआईसी) दिल्ली-सरकारस्य च संयुक्त-प्रयत्नैः विकसितः अस्ति, यः देहली-अग्नि-सुरक्षा-नवीकरण-प्रक्रियां मूलतः पुनर्गठयति।
मुख्यमन्त्री अवदत् यत् गताष्ट-मासेषु दिल्ली-सरकारा नानाविधाः ऐतिहासिक-सुधाराः कार्यान्विताः, येभ्यः राजधानी-व्यापरिणां नागरिकानां विविध-संस्थापनानां च प्रत्यक्षं लाभः लभ्यते। सा अवदत् यत् अग्निपरमिट् (फायर-पर्मिट्), अनुज्ञापत्रम् (लाइसेंस), अन्ये च अनिवार्य-अनुमोदन-सम्बद्धाः प्रक्रियाः सरलाः, पारदर्शिकाः, एक-द्वार-प्रणाली-रूपे परिवर्तिताः। पूर्वं एषु प्रक्रियासु अनेक-अभिकरणानां सहभागित्वेन आवेदनकर्तारः क्लेशान् अनुभूतवन्तः, किन्तु अधुना विभागीय-दायित्वस्य स्पष्टतया निर्दिष्टा, अन्तिम-प्रमाणपत्रस्य निर्गमन-दायित्वं सम्बन्धित-विभागाय एव समर्पितम्।
मुख्यमन्त्रिणी अवदत् यत् शासन-व्यवस्थायां अधिकतम-पारदर्शिता-सुनिश्चित्यर्थं सञ्चिका-प्रक्रिया पूर्णतया डिजीटल-रूपेण परिवर्तिता। अधुना कश्चन नागरिकः अपि स्वस्य सञ्चिका कस्य अधिकाऱ्याः समीपे अस्ति, कियत्कालात् लम्बितम्, कस्मिन् चरणे अस्ति इति सर्वं ऑनलाइन द्रष्टुं शक्नोति। अग्नि-सुरक्षा-प्रमाणपत्र-नवीकरणार्थं नव-ऑनलाइन-पोर्टलस्य लोकार्पणं महत् परिवर्तनमिति कथयन्ती मुख्यमन्त्रिणी अवदत्—प्रधानमन्त्रिणः मोदी इत्यस्य प्रमुख-संकल्पः ‘डिजिटल्-इण्डिया’ देशं नूतन-शिखराणि प्रति नयति। तस्यैव भावनायाः अनुकूल्येन दिल्ली-सरकारापि ‘डिजिटल्-डेल्ही’-लक्ष्यं साकारयितुं निरन्तरं कार्यं करोति, येन सर्वाः सेवाः नागरिकेभ्यः मुखरहितेन (फेसलेस्), पारदर्शिकेन, तकनीकाधारितेन स्वरूपेण उपलभ्येरन्। सा अवदत्—यथा सामान्यः रिक्शाचालकः वा सब्जि-विक्रेता अपि सहजतया डिजीटल्-देयस्य उपयोगं करोति, तथा शासन-व्यवस्थायाः अपि आधुनिकत्वं, उपयोगकर्तृ-अनुकूलता च समयस्य आवश्यकता, एवं च देहली-सर्वकारः अस्मिन् एव मार्गे अग्रगच्छति।
मुख्यमन्त्री नागरिकसुरक्षा, सरल-सेवाः, पारदर्शी-प्रशासनम् इति दिल्ली-सरकारस्य सर्वोच्च-प्राथमिकताः इत्यपि आश्वास्य अवदत् यत् एतेषु क्षेत्रेषु निरन्तरं सुधाराः भविष्यन्ति।
अस्मिन् प्रसङ्गे दिल्ली-गृहमन्त्री आशिष-सूद अवदत्—अस्य उद्देश्यं शासनस्य भूमिकाṃ सरलां, सुव्यवस्थितां, नागरिक-हिताय अनुकूलां च कर्तुम्, येन सामान्य-जीवनं अधिकं सहजं भवेत्। तस्य अनुकूल्येन, अद्य मुख्यमन्त्रिण्या मार्गदर्शनेन एषः नूतनः पटल ः लोकार्पितः। अस्य पटलस्य माध्यमेन नागरिकाः स्वस्य आवासीय (रेजिडेन्शियल्) तथा वाणिज्यिक (कमर्शियल्) प्रतिष्ठानानां फायर-क्लियरेंस्-प्रमाणपत्रस्य नवीकरणं त्रिवर्षीय (व्यापारिक) पंचवर्षीय (आवासीय) अवधि समाप्तौ सुगमेन, पारदर्शिकेन, निरवधानं ऑनलाइन कर्तुं शक्नुवन्ति। एतेन न केवलं सुविधा वर्धते, अपि तु विभागीय-कार्यप्रणाल्यां पारदर्शिता आगच्छति, अनावश्यक-विवादाः आरोप-प्रत्यारोपाः च न्यूनाः भवन्ति। सूद अवदत्—अयं प्रक्रियाः अत्यन्तं सरलः, केवलं चत्वारि विवरणानि आवश्यकानि—गृह/प्रतिष्ठानस्य पता (अद्यतन-स्थान-लेखः), पैन्-कार्ड्, विद्युत्-देयपत्रस्य सीए-नम्बरः, पूर्वत: प्रदत्तस्य अग्नि-स्वीकृतिपत्रस्य (पुराने एफएससी) नम्बरः। अनन्तरं सर्वा प्रक्रिया विभागेन स्वयमेव क्रियते। एवमेव त्रिवर्षीय/पंचवर्षीय अवधि समाप्तेः पूर्वं अनिवार्यः वार्षिकः स्व-प्रमाणीकरण-प्रतिवेदनः (सेल्फ्-सर्टिफिकेशन्) अपि अस्मिन् पोर्टलेनैव ऑनलाइन भरणीयः भविष्यति।
पूर्वं एफएससी-नवीकरण-प्रक्रिया पूर्णतया ऑफलाइन-रूपेण एव आसीत्, येन आवेदनकर्तारः डीएफएस्-कचेरीषु पुनःपुनः गन्तुं बाध्यन्ते स्म, सत्यापनार्थं प्रपत्र-प्रस्तुत्यर्थं च। सर्वे आवेदनपत्राणि सहायक-दस्तावेजाः च हार्ड-कॉपी-रूपेण दातव्यम् अनिवार्यम् आसीत्। मैनुअल्-प्रक्रियायाः कारणेन विलम्बः, प्रपत्राणां गुमनस्य सम्भावना, प्रक्रियायाः अपारदर्शिता च सामान्यानि समस्यानि आसन्। स्थित्यधिकारार्थं आवेदनकर्तृभिः स्वयम् कार्यालयं गन्तव्यमेव आसीत्, अतः प्रणाली समय-व्ययी, अक्षमा, व्यवसाय-अनुकूल-परिवेशस्य प्रतिकूलाश्च आसीत्। अधुना प्रक्रिया पूर्णतया ऑनलाइन-सरल-च कृताः। नूतने ऑनलाइन-प्रणाल्यां आवेदनकर्तारः केवलं त्रयः आवश्यक-दस्तावेजाः सम्मिल्य नवीकरण-आवेदनं डिजिटल्-रूपेण प्रस्तुतुं शक्नुवन्ति, येन सम्पूर्ण-प्रक्रिया पेपरलेस् अभवद्।
पटलतः स्वयंचालित-क्षेत्राधारित-रूटिंग् (जोन-बेस्ड-रूटिंग्) द्वारा आवेदनं तत्क्षणमेव सम्बद्ध-अधिकारिणः, परीक्षण-सहायकः (स्क्रूटिनी-असिस्टण्ट्), एडीओ, प्रभागीय-अधिकारी, उप-मुख्य-अग्निशमन-अधिकारी, तथा मुख्य-अग्निशमन-अधिकारी/निदेशकचिकित्सासेवाम् प्रति प्रेषयति। निरीक्षण-समये एडीओ स्थलनिरीक्षणं कृत्वा स्व-प्रतिवेदनं सीध्रे पोर्टले उपलोड् करोति। अनुमोदनं प्राप्ते सति अग्नि-सुरक्षाप्रमाणपत्रं स्वयमेव ऑनलाइन उत्पाद्य तत्क्षणमेव निर्गच्छति। आवेदकाः प्रत्येके चरणे SMS तथा ईमेल्-माध्यमेन अद्यतनीकरणानि प्राप्नुवन्ति, अन्तिमं प्रमाणपत्रं च सरलतया पटलतः अवरोहितुं शक्नुवन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता