Enter your Email Address to subscribe to our newsletters


पश्चिमी सिंहभूमम्, 15 नवंबरमासः (हि.स.)।भगवान् बिरसा मुंडा इत्यस्य १५०-मीं जयंती तथा झारखण्डराज्यस्य २५-वर्षीयोत्सवस्य अवसरे शनिवासरे चाईबासा नगरे बसस्थानकचौकस्थितं आदिमकदप्रतिमायाम् माल्यार्पणं कृत्वा श्रद्धांजलिः समर्पिता।
कार्यक्रमे झारखण्डसरकारस्य राजस्व-, भूमिसुधार- तथा परिवहनमन्त्री श्री दीपक बिरुवा, उपायुक्तः चन्दनकुमारः, पुलिस अधीक्षकः अमित रेनू, जिल्ला परिषदाध्यक्षा लक्ष्मी सुरेन, उपविकासायुक्तः संदीपकुमार मीणा, अपरउपायुक्तः प्रवीण केरकेट्टा च सहिताः अनेकाः वरिष्ठाः पदाधिकारी उपस्थिताः।
तस्मिन् अवसरे सदरअनुमण्डलपदाधिकारी, सदरअनुमण्डलपुलिसपदाधिकारी, विभिन्नजिल्लास्तरीयाः अधिकारी, नगरपरिषदप्रतिनिधयः, स्थानीयथानाप्रभारी तथा सामाजिकसंगठनसदस्याः अपि “धरतीआबा” प्रतिमायाम् माल्यार्पणं कृत्वा तस्मै नमनं कृतवन्तः।
अस्मिन् अवसरे मन्त्री श्री दीपक बिरुवा उक्तवन्तः – भगवान् बिरसा मुंडस्य १५०-मीं जयंती च राज्यनिर्माणस्य २५-वर्षपूर्ति सर्वेभ्यः झारखण्डवासिभ्यः गौरवमयः क्षणः। ते च उक्तवन्तः – २५ वर्षाणि युवावस्थायाः प्रतीकं, तथा यथाक्रमं राज्यस्य विकासः प्रगत्याश्च सर्वेषां दायित्वं। मन्त्री अवदत् यत् राज्यसरकार झारखण्डजनान् स्वावलम्बिनः कुर्वाणाः सततं कार्यं कुर्वन्ति।
अन्ते मन्त्री, उपायुक्तः, पुलिस अधीक्षकः अन्याः च अधिकारी च झारखण्डवासिभ्यः झारखण्डस्थापनादिनस्य २५-वर्षीयोत्सवस्य शुभकामनाः प्रदत्तवन्तः।
---------------
हिन्दुस्थान समाचार