Enter your Email Address to subscribe to our newsletters

मण्डी, १५ नवम्बरमासः (हि.स.)। हिमाचलप्रदेशब्राह्मणसभायाः मण्डीजनपदकार्यकारिण्याः अध्यक्षः जितेन्द्रवशिष्ठः सुन्दरनगरस्थितः स्वकार्यकारिणीं विस्तारयामास। यस्मिन् मण्डीस्थः महासचिवः प्रकाशचन्द्रशर्मा, बल्हप्रदेशीयः कोषाध्यक्षः हेतरामशर्मा च, तदनन्तरं बलवीरशर्मा मण्डीस्थितः, मोहनलालशर्मा रिवालसरस्थश्च मुख्यसंरक्षकौ नियुक्तौ। एवमेव भीमचन्द्रसरोचः मण्डी, गुणप्रकाशशर्मा मण्डी, मुन्शीरामशर्मा मण्डी च संरक्षकत्वेन नियुक्ताः।
तत्र लेखराजशर्मा जोगिन्द्रनगरस्थः, गोपालशर्मा बल्हस्थः, माया शर्मा मण्डीस्था च वरिष्ठउपाध्यक्षाः अभवन्। पुष्पराजकात्यायनः मण्डीस्थः, जगदीशप्रभाकरः धर्मपुरस्थः, रुपलालशर्मा करसोगस्थः, श्यामलालशर्मा पण्डोहस्थः च उपाध्यक्षाः अभवन्। सुरेन्द्रपाठकः बल्हस्थः, जितेन्द्रकुमारशर्मा द्रंगस्थः, दुर्गाप्रसादः सुन्दरनगरस्थः च सहसचिवपदे नियोजिताः।
सञ्जयकुमारः मण्डीस्थः प्रेससचिवपदे नियुक्तः। मनुशर्मा जोगिन्द्रनगरस्थः, अमरदत्तशर्मा करसोगस्थः, रमेशकुमारः गोहरस्थश्च संगठनसचिवाः अभवन्। वी.सी.शर्मा मण्डीस्थः लेखाकारः, हंसराजशर्मा पण्डोहस्थः सहायकलेखाकारः नियुक्तः। गोपालशास्त्री लडभडोलस्थः, श्यामलालशर्मा सरकाघाटस्थः, जितेन्द्रमोहनशर्मा मण्डीस्थः च प्रचारसचिवाः अभवन्। डॉ॰ ओमराजशर्मा बल्हस्थः मुख्यसलाहकारः, मुरारीलालशर्मा, रेवतीरमणशर्मा मण्डीस्थौ, तेजरामशर्मा बल्हस्थः च सलाहकाराः नियुक्ताः। धर्मप्रचारप्रसारकार्ये पूर्णचन्द्रमौद्गिलः गोहरस्थः नियोगं प्राप्तवान्। विधिपरामर्शकपदे गीताञ्जलीशर्मा मण्डीस्था नियुक्ता।
कार्यकारिणीसदस्यपदे रामप्रकाशशर्मा धर्मपुरस्थः, अनिलशर्मा बल्हस्थः, बालकृष्णशर्मा गोहरस्थः, बलीभद्रशर्मा सुन्दरनगरस्थः, कौरेशर्मा पण्डोहस्थः, गिरजाशर्मा मण्डीस्था, सरिताशर्मा मण्डीस्था, उर्मिलाशर्मा सुन्दरनगरस्था, भगतरामशर्मा करसोगस्थः, पद्मनाभशर्मा करसोगस्थः, महेशकुमारशर्मा सरकाघाटस्थश्च नियुक्ताः।
हिन्दुस्थान समाचार / अंशु गुप्ता