जम्मू-कश्मीरस्य नौगाम पुलिसारक्षिस्थाने रात्रौ विलंबेन विस्फोटः, प्रातःपर्यन्तं मृतानां संख्या 7 यावत्प्राप्नोत्, सुरक्षा व्यवस्था दृढा
जम्मूः, 15 नवंबरमासः (हि.स.)।जम्मू कश्मीरप्रदेशे श्रीनगरनगरे नौगाम नाम्नि पुलिसस्थानके शुक्रवाररात्रौ प्रायेण द्वादशवदने जातस्य प्रचण्डस्य विस्फोटस्य परिणामस्वरूपं मृतानां संख्या सप्त संजाताः। दुर्घटनायां घायलानां कतिपयानां दशा अतीव गम्भीरा अस्ति।
जम्मू-कश्मीरस्य नौगाम पुलिसारक्षिस्थाने  रात्रौ विलंबेन विस्फोटः, प्रातःपर्यन्तं मृतानां संख्या 7 यावत्प्राप्नोत्, सुरक्षा व्यवस्था दृढा


जम्मूः, 15 नवंबरमासः (हि.स.)।जम्मू कश्मीरप्रदेशे श्रीनगरनगरे नौगाम नाम्नि पुलिसस्थानके शुक्रवाररात्रौ प्रायेण द्वादशवदने जातस्य प्रचण्डस्य विस्फोटस्य परिणामस्वरूपं मृतानां संख्या सप्त संजाताः। दुर्घटनायां घायलानां कतिपयानां दशा अतीव गम्भीरा अस्ति। घटना विषये मृतसंख्या अधुना अपि वर्धितुं शक्यते इति आशङ्का वर्तते। विस्फोटकाले जातया अग्निना तत्र स्थिताः अनेकाः वाहनाः दग्धाः अभवन्। स विस्फोटः इतः किमपि प्रचण्डः आसीत यत् तस्य शब्दः छानपोरा सनतनगर रावलपोरा पन्थाचोक् प्रदेशादीनि दूरस्थानी अपि प्राप्नोत्। अस्यां घटनायां अनन्तरं पुलिसबलैः समग्रं क्षेत्रं निरुद्धं कृतम्। विस्तृता वार्ता अद्यापि प्रतीक्ष्यते।

---------------

हिन्दुस्थान समाचार