Enter your Email Address to subscribe to our newsletters

सूरतम्, १५ नवम्बरमासः(हि.स.)। अद्य भारतप्रधानमन्त्री नरेन्द्रमोदी पुनः गुजरातराज्यस्य प्रवासं कुर्वन्ति। ते 31 अक्टूबरदिनाङ्के केवड़ियायां सरदारवल्लभभाईपटेलस्य १५०-तमजयंतीसमारोहस्य अंगीभूताः आसन्। प्रातःकाले मोदी सूरतविमानपत्तनेऽवतरन्, यत्र स्थानियनेतृभिः तेषां स्वागतं कृतम्। बिहारस्य विधानसभानिर्वाचनस्य एनडीए पक्षस्य प्रचण्डविजयेन अनन्तरं एषा प्रधानमन्त्रिणः प्रथमं गुजरात-यात्रा अस्ति।
सूरते कार्यक्रमानन्तरं प्रधानमन्त्रिणः नर्मदा-जनपदेभ्यः गमिष्यन्ति। तत्र ते आदिवासीगौरवदिवसस्य च भगवन्तः बिरसामुण्डस्य १५०-तमजयंती-उत्सवस्य च भागीभविष्यन्ति। प्रथमं देवमोगरामन्दिरे दर्शनपूजां करिष्यन्ति, ततः देडियापाड़ास्थानं प्रति विशालजनसभां सम्मन्त्रयिष्यन्ति।
देडियापाड़ायां सभायां प्रधानमन्त्रिणा प्रायः 7900 कोटीनां मूल्ययुक्ताः विविधाः विकासपरियोजनाः शिलान्यासिताः भविष्यन्ति। सायंकाले पुनः सूरतम् आगत्य देहलीं प्रति प्रतिनिवर्तनं करिष्यन्ति। अस्मिन् सम्पूर्णे एकदिवसीये भ्रमणे गुजरातस्य आदिवासीप्रदेशेषु विशेषकेन्द्रितता दृश्यते।
प्रधानमन्त्रिणः कार्यक्रमः (मिनिट्-टू-मिनिट्)
7:45 AM — देहलीतः प्रस्थानम्
9:20 AM — सूरतविमानपत्तनम् आगमनम्
9:20 AM — विमानपत्तनात् हेलीपैडस्थानं प्रति गमनम्
9:45 AM — सूरत-हेलीपैड्स्थाने आगमनम्
9:50 AM — हेलीपैडस्थानात् बुलेट्-रेलयानपरियोजनायाः स्थलं प्रति प्रस्थानम्
9:55 AM — बुलेट्-रेलयानस्थानके आगमनम्
10:00–11:15 AM — बुलेट्-रेलयान स्थानकस्य निरीक्षणम्
11:20 AM — तस्मात् हेलीपैडस्थानं प्रति गमनम्
12:40 PM — देव-मोगरा-मन्दिरम् आगमनम्
12:45–1:00 PM — मन्दिरे पूजार्चनम्
1:05 PM — मन्दिरात् हेलीपैडस्थानं प्रति गमनम्
1:15 PM — देव-मो गरा-हेलीपैडस्थानात् देडियापाड़ा-प्रति उड्डयनम्
1:35 PM — देडियापाड़ा-हेलीपैडस्थानं आगमनम्
1:40 PM — तस्मात् सभा-स्थलं प्रति प्रस्थानम्
2:10 PM — सभा-स्थले आगमनम्
2:15–4:00 PM — बिरसामुण्डाजयंतीसमारोहः तथा जनसभा
4:05 PM — सभास्थलात् हेलीपैडस्थानं प्रति गमनम्
4:10 PM — हेलीपैडस्थाने आगमनम्
4:15 PM — देडियापाडात् सूरतविमानपत्तनं प्रति उड्डयनम्
5:00 PM — सूरत-विमानपत्तनम् आगमनम्
5:05 PM — देहलीं प्रति प्रस्थानम्
6:40 PM — देहलीविमानपत्तनम् आगमनम्
प्रधानमन्त्रिणः कार्यक्रमे परिवर्तनम्
अन्तिमक्षणेषु प्रधानमन्त्रिणः यात्रायां महत्वपूर्णः परिवर्तनः कृतः। देहलीं प्रतिगमनात् पूर्वं मोदी सूरत-निवसन्तं बिहार -उत्पन्न-समुदायं मिलित्वा तेषां अभिनन्दनं स्वीकुर्युः। सायं ४ वादने सूरत-विमानपत्तनस्य बहिः बिहार-समुदायेन प्रधानमन्त्रिणः विशेषं स्वागतं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता