Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदिना शनिवासरे भगवान्बिरसामुण्डस्य शतपञ्चाशत्तमजयंती तथा झारखंडप्रदेशस्य स्थापना दिवसस्य अवसरयोः देशवासिभ्यः शुभाशंसनानि दत्तानि। तेन उक्तं यत् एतदवसरं जनजातीयसमाजस्य गौरवपूर्णपरम्पराणां तेषां शौर्यस्य देशार्थं दत्तबलिदानानां च स्मरणाय समुचितं कालः अस्ति।
प्रधानमन्त्री अवदत् यत् बिरसामुण्डस्य विरासत् समग्रराष्ट्रं स्वाभिमानस्य संघर्षस्य च प्रेरणां ददाति तथा झारखंडप्रदेशस्य सांस्कृतिकपरिचयः राष्ट्रस्य विविधतां अधिकं सुदृढीकुरुते।
प्रधानमन्त्री मोदी सोशलमीडिया प्लैटफार्म एक्स इत्यत्र द्वौ पृथग् संदेशौ प्रकाशित्य शुभकामनाः दत्तवन्तः। तत्र प्रधानमन्त्रिणा देशस्य महान् स्वतंत्रतासेनानी भगवान्बिरसामुण्डाय तेषां शतपञ्चाशत्तमजयंत्यां श्रद्धाञ्जलिः अर्पिता। तेन कथितं यत् जनजातीय गौरवदिवसे समग्रदेशः मातृभूमेः गौरवस्य रक्षणार्थं बिरसामुण्डेन कृतं अतुलनीयम् योगदानम् अनु स्मरति। विदेशी शासनस्य अत्याचाराणां प्रति योऽस्य संघर्षः तेन भाविनः सर्वाः पीढयः प्रेरणां प्राप्स्यन्ति।
अन्यस्मिन् सन्देशे प्रधानमन्त्रिणा झारखंडस्थापनादिने प्रदेशवासिभ्यः शुभाशंसनानि दत्तानि। स अवदत् यत् जनजातीयसंस्कृत्या समृद्धं एतत् प्रदेशं साहसस्य संघर्षस्य स्वाभिमानस्य च गाथाभिः परिपूर्णम् अस्ति। अन्ते प्रधानमन्त्रिणा भगवान्बिरसामुण्डस्य भूमेः झारखंडप्रदेशस्य प्रगतेः समृद्धेः च शुभकामना व्यक्ता।
---------------
हिन्दुस्थान समाचार