Enter your Email Address to subscribe to our newsletters

कोलकाता, १५ नवम्बरमासः (हि.स्.)। देहल्याः लालकिल्लामेट्रोस्थानके जातस्य वाहनविस्फोटप्रकरणे राष्ट्रीयान्वेषणसंस्था (एन.आई.ए.) पश्चिमबङ्गराज्यारक्षकस्य साहाय्येन उत्तरदिनाजपुरजनपदस्य दालखोलात् अल्–फलाह-विश्वविद्यालयस्य (फरीदाबाद) एकं एम्.बी.बी.एस्. छात्रं ग्रहितवन्तः। आरक्षकानुसारं एषा कार्यवाही शुक्रवासररात्रौ संयुक्त-आपातकर्मेण सम्पन्ना।
गृहितछात्रस्य नाम निसार आलम् अस्ति। तस्य परिवारः दीर्घकालं पंजाबस्य लुधियानायां वसति, यद्यपि तस्य पितृगृहम् उत्तरदिनाजपुरस्य दालखोला-स्थिते कोनालग्रामे अस्ति। निसार आलम् अस्य सप्ताहे मातृभ्यां भगिन्या च सह एकस्मिन् पारिवारिक-आयोजने सहभागी भवितुं दालखोलं आगच्छत्।
अन्वेषणक्रमे तस्य दूरवाणीस्तम्भस्थानं दालखोलायां सक्रियम् इति ज्ञातम्। अस्य आधारा अन्वेषणदलः शुक्रवासरे दालखोलं प्राप्तः तथा तत्रैव रात्रौ तं अभिग्रहितवान्। ग्रहितारणन्तरं तम् इस्लामपुरस्थानके आरक्षककेन्द्रे नीत्वा बहुकालं पर्यन्तं प्रश्नान् कृतवन्तः, ततो दार्जिलिङ्-जनपदस्य सिलीगुडी-नगरं प्रति प्रेषितवन्तः।
शनिवार-प्रातःकाल-पर्यन्तं प्राप्त-सूचनाः अनुसारम् अभियुक्तः सोमवासरे एव ट्रान्जिट्-रिमाण्ड इत्यनेन सह देहलीं नेतुं शक्यते।
कोनालग्रामस्य निवासिनः अवदन् यत् यद्यपि आलमस्य परिवारः लुधियानायां स्थायिभूतः, तथापि ते कालान्तरं स्वबंधून् द्रष्टुं ग्रामम् आगच्छन्ति स्म।
एकेन ग्रामनिवासिना उक्तम्—आलम् अत्यन्तं शान्त-स्वभावः, विनीतः च बालकः आसीत्। तस्य कस्यचित् अपराधकार्ये अथवा अवैध-क्रियायां सहभागः भविष्यति इति किमपि कल्पयितुं न शक्यते।
हरियाणाराज्यस्य फरीदाबादजनपदस्य धौजप्रदेशे स्थितम् अल्–फलाह-विश्वविद्यालयम् अद्यतन-दिवसेषु देशव्यापिनां चर्चानां विषयः जातम्। देहलीविस्फोटे द्वादश-जनानां मृत्युः तथा अनेकेषां घायनं जातम्; अनन्तरं तत्र विशालपरिमाणेन विस्फोटकद्रव्यस्य प्राप्ति दृश्यते स्म, यस्य परिणामस्वरूपम् अन्वेषणसंस्थाः विश्वविद्यालयपरिसरे निरन्तरं निरीक्षणं कुर्वन्ति।
गतदिवसेषु अन्वेषण-दलैः विश्वविद्यालये बहुविधानि प्रश्नोत्तरचक्राणि कृतानि, च ५२ चिकित्सकाणां सूचनाः संगृहीताः। अन्वेषकाः डॉ. मुज्जम्मिल् शकील, डॉ. शाहीन् शाहीद, डॉ. उमर् मोहम्मद इत्यादिभिः सम्बद्धान् तथ्यानि सञ्चिन्वन्ति, येषां विषये एकस्य आतङ्कघटकस्य संचालनस्य संशयः वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता