Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, १५ नवम्बरमासः (हि.स.)। केंद्रीयगृहमन्त्री अमितशाहः अद्य सायंकाले श्रीनगरस्य प्रवासं कर्तुं सम्भाव्यन्ते। ह्यः सायं नौगाम-आरक्षकस्थानकेऽन्तः जातायां तीव्रप्रभावयुक्तायां विस्फोट-घटनायां 9 जनाः मृताः, अन्ये 29 जनाः घातिताः च अभवन्।सूत्राणि वदन्ति यत् अमितशाहः सायं श्रीनगरम् आगमिष्यन्ति। ते नौगाम-आरक्षकस्थानके अभ्यन्तरे सम्पन्नस्य विस्फोटस्य विषये सूचनां दास्यन्ति। तस्मिन् विस्फोटे एकः राज्यान्वेषणसंस्था (सीआईए) अधिकारिः, एकः नायब-तहसीलदारः च सहिताः 9 जनाः निधनम् आपन्नाः, 29 जना च घायिताः।
अधिकारिणः अवदन् यत् एषः विस्फोटः तदा अभवत् यदा एफएसएल-समूहं राजस्व-अधिकारिभिः सह मिलित्वा विस्फोटक-भण्डारस्य परीक्षणं करोत् आसीत्। विस्फोटक-द्रव्यं गतसप्ताहे हरियाणायाः फरीदाबाद्-नगरात् जप्तम् आसीत्, यदा जम्मू-कश्मीरारक्षकेन एकस्य चिकित्सकानां आतङ्कघटकस्य रहस्यप्रकाशनं कृतम्। जम्मू–कश्मीरस्य डीजीपी अद्यात्र आयोजितायां प्रेस-सम्मेलने अवदत् यत् जप्तविस्फोटकद्रव्यं श्रीनगरं प्रति नीतं तथा नौगामारक्षकस्थानके अन्तः एकस्मिन् विस्तृतप्राङ्गणे सुरक्षितरूपेण स्थाप्यते स्म। विनियोजितप्रक्रियानुसारं प्राप्त-सामग्र्याः चिह्नानि अग्रे प्रेषणीयानि आसन् फोरेंसिक् तथा रासायनिक-परीक्षणार्थम्। प्राप्त-वस्तूनां महदाकारं दृष्ट्वा एषा प्रक्रिया ह्यःप्रभृत्ति एव प्रचलति स्म।
हिन्दुस्थान समाचार / अंशु गुप्ता