Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 नवंबरमासः (हि.स.)।
केन्द्रीयगृह मन्त्रिणा अमितशाहेन महत्याः स्वतंत्रतासेनान्याः जनजातीय अस्मितायाः प्रतीकस्य च भगवतो बिरसामुण्डस्य जयंतीदिने तेषां प्रति नमस्कारः कृतः।
अमितशाहः सोशलमीडिया प्लैटफार्म एक्स इत्यत्र स्वसन्देशे अवदत् यत् धरत्या आबा बिरसामुण्डेन आदिवासीसमाजः स्वसंस्कृतेः अधिकाराणां च संरक्षणाय प्रेरितः तथा अङ्ग्रेजराज्यस्य विरुद्धं तान् एकत्र कृत्वा ऐतिहासिकस्य उलगुलान नामकस्य आन्दोलनस्य नेतृत्वं कृतम्।
अमितशाहेन एवमपि उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना बिरसामुण्डस्य जयंतीं जनजातीय गौरवदिवस इति नाम्ना उत्सवस्वरूपेण आरब्धा येन तस्य महान् योगदानस्य राष्ट्रीयं सम्मानं सम्पादितम्।
---------------
हिन्दुस्थान समाचार