Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 नवंबरमासः (हि.स.)।केंद्रीयइलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकीराज्यमन्त्री जितिनप्रसादेन चतुःचत्वारिंशदुत्तरम् इंडिया इंटरनेशनल ट्रेड फेयर इति महोत्सवे इलेक्ट्रॉनिक्ससूचनाप्रौद्योगिकीविभागस्य पवेलियन उद्घाटितम्। भारतमण्डपम इति स्थाने अस्मिन् पवेलियने विशालसंख्यायां जनाः आगत्य डिजिटलइंडिया आरभ्य कृत्रिमबुद्धिसम्बद्धान् अनेकानवोन्मेषान् दृष्टवन्तः।
मन्त्रालयस्य अनुसारं पवेलियन त्रिषु भागेषु विन्यस्तम्— डिजिटलइंडिया, इंडिया एआई, मायगव इति क्षेत्राणि आगन्तुकान् भारतस्य डिजिटलक्षमतानां कृत्रिमबुद्धेः च सुरक्षितलाभदायिकस्य उपयोगस्य झलकां दर्शयन्ति। अस्य पवेलियनस्य मुख्याकर्षणम् इंडिया एआई इति क्षेत्रम्। एतत् 2026 तमवर्षे भविष्यति इंडिया एआई इम्पैक्ट समिट इत्यस्य पूर्वतयारीभूतं क्षेत्रम्, यस्मिन् भारतस्य कर्मप्रवृत्तेः प्रभावपर्यन्तं यात्रा प्रदर्श्यते।
मन्त्री जितिनप्रसादः एआई मिशनस्य अनुभवनिवेशं निरीक्षितवान्। तेन इंटरैक्टिवस्क्रीन इत्यस्य माध्यमेन एआईकोषः, वास्तविकाः एआई अनुप्रयोगाः, भविष्यत्सम्बद्धाः कौशलाः, स्टार्टअप् इत्याख्याः नवचेष्टाः, कम्प्यूटक्षमता, सुरक्षितकृत्रिमबुद्धिः च इत्यस्याः प्रमुखाः पहलाः दृष्टाः। तेन युवान् इंडिया एआई इति दलस्य सदस्यांश्च प्रेरितवान् यत् ते नवोन्मेषे निरन्तरं प्रवर्तेरन्।
पवेलियने इंडिया एआई इम्पैक्ट समिट 2026 इत्यस्य सम्बन्धिन्यः अनेके प्रमुखाः पहलाः अपि प्रकाशिताः। ग्लोबलइम्पैक्टचैलेंजेस इति कार्यक्रमे षट्कोट्यधिकरूप्यकपर्यन्तं पुरस्कारः मेंटरशिप् च उपलब्धौ स्तः। एआई फॉर ऑल इति योजना समाजोपयोगिकान् एआई प्रकल्पान् प्रोत्साहयति। एआई बाई हर इति कार्यक्रमे महिला उद्यमिन्यः एआई स्टार्टअप् प्रवर्तयितुं अवसरान् प्राप्नुवन्ति।
त्रयोदशात् एकविंशतिवयस्कानां युवानां कृते उन्नतिः विकासः च कृत्रिमबुद्ध्या कार्यक्रमोऽस्ति, यस्मिन् युवानः समाजोपयोगिकान् एआई प्रकल्पान् निर्मातुं शक्नुवन्ति। रिसर्चसिम्पोजियम ऑन एआई इति कार्यक्रमे भारतस्य ग्लोबलसाउथस्य च शोधकर्तारः एआई विषयकं संशोधनम् उपस्थापयिष्यन्ति।
मन्त्रालयेन उक्तं यत् इंडिया एआई आईईए इति कॉल फॉर एब्स्ट्रैक्ट्स ऊर्जा क्षेत्रे कृत्रिमबुद्धेः प्रभावं निरूपयन्तीं केसबुक् इत्यस्य कृते अनुसन्धानमार्गदर्शनं करिष्यति। एआई एक्स्पो शोकेस इति क्षेत्रे वैश्विकाः कृत्रिमबुद्धितन्त्रज्ञानानि समाधाना च प्रदर्श्यन्ते। इंडिया एआई टिंकरप्रेन्योर इति कार्यक्रमः कक्षा षष्ठी-द्वादशीपर्यन्तं छात्राणां कृते राष्ट्रीय एआई बूटकैंप् अस्ति, यः कृत्रिमबुद्धेः मूलकौशलानि सामाजिकनवोन्मेषं च प्रोत्साहयति।
-----------
हिन्दुस्थान समाचार