मध्यप्रदेशे निरंतरं वर्धते शीतलहरीप्रकोपो, भोपाले अपि निरंतरता
भोपालम्, 15 नवंबरमासः (हि.स.)।प्रदेशे हठात् वर्धिता शीतलता अस्य वर्षस्य शिशिरऋितोः शीघ्रमेव तीक्ष्णमागमनं जनानां प्रत्यक्षं कृतवती इति अनुभवः जातः। राज्यस्य बहुषु प्रदेशेषु शीतलहर्याः प्रकोपो निरन्तरं वर्धमानः अस्ति। भोपाल इन्दौर उज्जयिनी सागर ग्वा
मध्‍य प्रदेश का मौसम


भोपालम्, 15 नवंबरमासः (हि.स.)।प्रदेशे हठात् वर्धिता शीतलता अस्य वर्षस्य शिशिरऋितोः शीघ्रमेव तीक्ष्णमागमनं जनानां प्रत्यक्षं कृतवती इति अनुभवः जातः। राज्यस्य बहुषु प्रदेशेषु शीतलहर्याः प्रकोपो निरन्तरं वर्धमानः अस्ति। भोपाल इन्दौर उज्जयिनी सागर ग्वालियर तथा जबलपुर संभागप्रदेशेषु प्रातः सायं वहन्त्यः शीतलवाताः जनजीवनं प्रभावितवन्तः।

मौसमविभागस्य अनुसारं भोपालनगरे स्थितिः विशेषं गभीराभूत् यतः तत्र सप्तदिनात्मककालपर्यन्तं शीतलहरि अविच्छिन्नरूपेण प्रवहति। मौसमविशेषज्ञाः वदन्ति यत् राज्यस्य अनेकानि नगराणि शुक्रवार शनिवासरयोः शीतलहरिणा आविष्टानि इति चेतावनी प्रदत्ता। सप्तदशदिनाङ्कात् अल्पतया तापमानवृद्धेः संभावना अस्ति।

गुरुवासरशुक्रवासरयोः रात्रिषु अतीव शीतलता शहडोलनगरस्याभवत् यत्र प्रथमतया तापमानं सप्त दशांश द्वौ अंश तापमानपर्यन्तं अवतीर्णम्। ततोऽनन्तरं शिवपुरी नगरे तापमानं अष्ट अंशं जातम्। भोपालनगरे तापमानं नव दशांश षट् अंशं अभवत् यत् गतसप्ताहपर्यन्तं अष्ट अंशस्य समीपे एव स्थितम्। इन्दौरे अष्ट दशांश द्वौ अंशं जबलपुरे नव दशांश चत्वारि अंशं ग्वालियरे दश दशांश पंच अंशं उज्जयिन्यां एकादश दशांश अष्ट अंशं तापमानं लब्धम्।

अन्येषु जनपदेषु अपि शीतप्रभावः तीव्रतया अनुभूतः। छतरपुरे नौगांव तथा राजगढे अष्ट दशांश द्वौ अंशं तापमानं जातम्। उमरियायां अष्ट दशांश षट् रीवायां अष्ट दशांश अष्ट च्छिन्दवाडायां मलाज्खण्डे च नव दशांश पंच मण्डल्याम् नव दशांश षट् अंशं तापमानम् अभवत्। एषा आकस्मिकवृद्धिः नवम्बरमध्यकाले एव जनवरीमासवत् तीक्ष्णशीतलतायाः अनुभूतिं जनयति।

मौसमविशेषज्ञानुसारेण अस्याः तीव्रशीतलतायाः मूलकारणानि अनेकानि सन्ति। हिमालयप्रदेशेषु निरन्तरा हिमपातेः कारणेन तत्रोत्पन्नाः अतीवशीतलाः उत्तरदिग्गता वायवः मैदानीप्रदेशान् प्रति आगच्छन्ति। अन्यतः राजस्थानप्रदेशस्य समीपे प्रतिचक्रवातः सक्रियः वर्तते यः एताः शीतलवाताः अधिकं नीचं प्रति नयति तेन तासां प्रकोपो वर्धितः। एते वाताः राजस्थानप्रदेशस्य मरुस्थलप्रदेशात् प्रवहन्तः भोपाल इन्दौरप्रदेशयोः अगच्छन् तापमानं तीक्ष्णतया न्यूनं कृतवन्तः।

भोपालनगरे अद्यापि अष्टमे दिनं यावत् शीतलहरिः प्रवहिष्यति इति मौसमविभागस्य अनुमानम् अस्ति। शनिवासरे इन्दौर भोपाल राजगढ शाजापुर देवास सीहोर शिवपुरी निवाडी टीकमगढ छतरपुर पन्ना सतना रीवा मैहर कटनी जबलपुर उमरिया शहडोल मण्डला डिंडौरी अनूपपुर इत्येषु जनपदेषु शीतलहरिचेतावनी प्रदत्ता अस्ति। एतेषु प्रदेशेषु प्रातःकालादेव जनाः तीक्ष्णशीतलतां अनुभवन्ति तथा ऊष्णवस्त्रविनैः बाहिर्गमनं न शक्नुवन्ति।

प्रदेशस्य एकमेव गिरिप्रदेशः पचमढी नामकः अस्मिन् वर्धमाने शीतकाले द्विविधमौसमस्वरूपम् अवलोक्यते। रात्रौ तु तत्रान्यनगराणां तुलनया तापमानं किंचित् ऊर्ध्वतया वर्तते किन्तु दिवसा तापमानस्य विलक्षणं अवरोहणं दृष्टम्। शुक्रवारवासरे तत्र अधिकतमं तापमानं त्रयस्त्रिंशदंशं न्यूनतमं च चतुर्दश दशांश द्वौ अंशं जातम्। मलाज्खण्डे सीधौ च अपि दिवसा शीतप्रभावः अधिकतया अनुभूतः।

अतः मौसमविशेषज्ञाः वदन्ति यत् गतदशवर्षपर्यन्तं नवम्बरे मेघवृष्टिसहिता शीतलतायाः प्रवाहः दृश्यते। अस्मिन् वर्षे अपि तादृशं स्वरूपं प्राप्तम्। वर्षाकालस्य दृष्त्या अक्टोबरमासः अपेक्षातः अधिकं लाभकरः जातः यत्र सामान्यतया एक दशांश त्रय अंश वर्षा प्राप्यते किन्तु अस्मिन् वर्षे द्वौ दशांश अष्ट अंशा वर्षा प्राप्ता या सामान्यतया शताधिकं एक विंशतिप्रतिशतं अधिका आसीत। अतिरिक्ता नमी कारणेन तापमानस्य तीव्रगिरणं जातम्। वातावरणविभागः वदति यत् पञ्चदश तथा षोडश नवम्बरयोः शीतप्रकोपः पराकाष्ठां प्राप्स्यति किन्तु सप्तदश दिनाङ्कादारभ्य रात्रौ तापमानस्य किंचित् वृद्धिर्भविष्यति। दिवसा तापमानं तु अष्टादश अथवा उन्नविंशदिनाङ्कात् आरभ्य उर्ध्वं यास्यति इति संभाव्यते। अद्यतनकाले तु सर्वेभ्यः जना शीतात् रक्षणं कर्तव्यम् प्रातःकाले अत्यंतं शीघ्रं बाहिर्गमनं न कर्तव्यम् वृद्धबालकादीनां विशेषरक्षणं कर्तव्यम् इति परामर्शः दत्तः।

---------------

हिन्दुस्थान समाचार