Enter your Email Address to subscribe to our newsletters

नोएडा, 15 नवंबरमासः (हि.स.)।
यमुना एक्सप्रेसवे औद्योगिकविकास प्राधिकरणेन अर्थात् यीड़ेन उत्तरप्रदेशसरकारस्य अनुमतेः अनन्तरं शुक्रवारदिने अष्टसहस्र द्विशत कोटीरूप्यकव्ययेन एकं एकीकृतं सौरविनिर्माण पारिस्थितिकी तन्त्रं स्थापयितुं एस ए ई एल इण्डस्ट्रीज लिमीटेडस्य उपकम्पन्यै एस ए ई एल सोलर पी षट प्राइवेट लिमीटेड इत्यस्मै अष्टमे सेक्टरे द्विशतएकरपरिमितां औद्योगिकभूमिं आविष्टां कृतवती। प्रस्ताविते अस्मिन् केन्द्रे टोपकान तन्त्रज्ञानाधारितं पञ्च गिगावाट् सौर कोश निर्मिति तथा पञ्च गिगावाट् सौर मॉड्यूल निर्मिति इति द्वौ निर्माणश्रेणीौ स्थाप्येते।
एतत् आवंटनम् उत्तरप्रदेशसरकारया यीड़े तथा यु पी इन्वेस्ट नाम कार्यक्रमयोः अन्तर्गतं एस ए ई एल इण्डस्ट्रीज लिमीटेड इत्यस्य पूर्वं दत्तस्य आश्वासनपत्रस्य अनुगमनरूपेण दत्तम् तथा अधुना यीड़ेन प्रदत्तेन आवंटनपत्रेण औपचारिकतां प्राप्नोति।
यीड़स्य मुख्यकार्यपालकाधिकारिणा राकेशकुमारसिंहेन तथा ओ एस डी इत्याख्येन शैलेन्द्रकुमारभाट्येन अद्य एस ए ई एल संस्थायाः अधिकारिभ्यः आवंटनपत्रं प्रदत्तम्। एषा विनिर्माण सुविधा जेवर विमानपत्तनस्य समीपे यमुना एक्सप्रेसवे नामकस्य मार्गस्य कौरिडोरे स्थित्या भविष्यति यत् प्रदेशस्य समग्रे बुनियादी ढांचे विनिर्माणक्षेत्रे च रणनीतिक औद्योगिक विकासक्षेत्ररूपेण नाम्ना निर्दिष्टम् अस्ति।
एतत् आवंटनं नव्य ऊर्जाक्षेत्रे उन्नतविनिर्माणक्षेत्रे च विशालस्तरीयविनिर्माणनिवेशान् सुकरान् कर्तुम् यीड़स्य सक्रियभूमिकां अधिकतरं प्रकाशयति। एस ए ई एल संस्थायाः नूतनसौरपरियोजनाया उपयोगेन प्रदेशस्य अधोसंरचनागत लाभाः अर्थात् आगामी जेवर विमानपत्तनस्य तथा लॉजिस्टिक्स केन्द्राणाम् उपयुक्ता सम्पर्कसुविधा उन्नतविनिर्माणाधारितविकासाय उत्तरप्रदेशसरकारस्य नीतिगतप्रोत्साहनानि च उपयुज्यन्त इति अपेक्ष्यते।
एस ए ई एल इण्डस्ट्रीज लिमीटेड नामकं संस्थानं विविधकृतं एकीकृतं च नवीकरणीय ऊर्जाक्षेत्रे प्रवृत्तम् अस्ति यत् सौर मॉड्यूल निर्माणे अभियान्त्रिके क्रये निर्माणे च समर्थम् अस्ति तथा विद्युत् परियोजनानां संचालनरक्षणकार्येषु अपि दक्षम्। तस्य स्वच्छ ऊर्जापोर्टफोलियो मध्ये अष्टसप्तति शतं नवत्तिर्यंश मेगावाट् सौर आय पी पी परियोजनाः त्रिसहस्र षट्पञ्चाशतमेगावाट् टोपकान सौर मॉड्यूल विनिर्माणक्षमता शतषट् दशांश नव मेगावाट् कृषि अपशिष्ट ऊर्जापरियोजनाः च अन्तर्भवन्ति।
---------------
हिन्दुस्थान समाचार