नौगामारक्षि स्थानके दुर्घटनावशो विस्फोटः, 9 मृताः, 32 आहताः क्रियते कारणानां परिशीलनम् : गृह मंत्रालयः
नवदिल्ली, 15 नवंबरमासः (हि.स.)। केन्द्रीयगृह मन्त्रालयेन शनिवासरे उक्तं यत् जम्मूकश्मीरप्रदेशस्य नौगामपुलिसस्थानके गतवासरस्य रात्रौ संवृत्ते दुर्घटनावश विस्फोटे नवजनाः मृत्युम् उपगताः त्रिंशदधिकद्वौ अन्ये जनाः आहताः च अभवन्। मंत्रालयेन स्पष्टं कृत
गृह मंत्रालय के संयुक्त सचिव (जम्मू-कश्मीर डिवीजन) प्रशांत लोखंडे शनिवार को यहां मीडिया ब्रीफिंग के दौरान


नवदिल्ली, 15 नवंबरमासः (हि.स.)।

केन्द्रीयगृह मन्त्रालयेन शनिवासरे उक्तं यत् जम्मूकश्मीरप्रदेशस्य नौगामपुलिसस्थानके गतवासरस्य रात्रौ संवृत्ते दुर्घटनावश विस्फोटे नवजनाः मृत्युम् उपगताः त्रिंशदधिकद्वौ अन्ये जनाः आहताः च अभवन्। मंत्रालयेन स्पष्टं कृतं यत् अस्य घटनायाः कारणानां अनुसंधानं प्रवर्तमानं अस्ति अन्यानि कस्यचित् प्रकारस्य अनुमानानि अनावश्यकानि भवन्ति।

गृह मन्त्रालयस्य संयुक्तसचिवः प्रशान्तलोखंडे इति नौगामपुलिसस्थानके संवृत्तविस्फोटस्य विषये प्रदत्तायां वार्ताब्रिफिंग् मध्ये उक्तवान यत् नौगामपुलिसस्थानके किञ्चन पोस्टरनामकसूत्रस्य आधारेण हालकाले एकं आतंकिमोड्यूल् उद्घાટितं आसीत्। अस्यैव प्रकरणस्य एफआइआर संख्या एकशत् षट्षष्ट्यधिकद्विसहस्रपञ्चविंशतिः इति अंकितायाः अनुसंधाने विस्फोटकद्रव्याणां रसायनानां च एकः विशालः भाण्डारः प्राप्तः आसीत्।

प्राप्ताः विस्फोटकद्रव्याणि नियमोक्तमानकानुसारं पुलिसस्थानकस्य परिसरस्थे विस्तीर्णे मुक्तप्रदेशे सुरक्षितरूपेण स्थापितानि आसन्। लोखंडे अवदत् यत् प्राप्तद्रव्याणि फोरेन्सिक तथा रासायनिक परीक्षणार्थं प्रेषयितुं यत् प्रक्रिया आसीत् सा गतद्विदिनपर्यन्तं अविरतं प्रवहति स्म। प्राप्तविस्फोटकानां अस्थिरतां अतिसंवेदनशीलतां च दृष्ट्वा तानि विशेषज्ञानां निरीक्षणे अत्यन्तसूक्ष्मतया संभालितानि आसन्।

अस्यैव प्रक्रियायाः मध्ये शुक्रवासररात्रौ प्रायेण एकादशवादने विंशतिमिनिट् इति समये सहसा दुर्घटनावश महाविस्फोटः अभवत्। अस्मिन् दुर्धटनायां नवजनानां मृत्युर्भवित तथा सप्तविंशतिः पुलिसकर्मणः द्वौ राजस्वअधिकारी त्रयः नागरिकाश्च आहताः अभवन्। सर्वेऽपि आहताः त्वरितं समीपवर्तमानानि चिकित्सालयानि प्रति प्रेषिताः।

विस्फोटस्य कारणेन पुलिसस्थानकस्य भवनं गभीरं विघातं प्राप्तम् तथा आसपासस्थितानां बहुषु भवनानामपि क्षतिरभवत्। संयुक्तसचिवः अवदत् यत् अस्य घटनायाः कारणानां अनुसन्धानं प्रवर्तमानमेव अन्यानि अनुमानानि निरर्थकानि। सरकारम् अस्य दुःखपूर्णकाले मृतकानां कुटुम्बैः सह एकतया तिष्ठति।

---------------

हिन्दुस्थान समाचार