Enter your Email Address to subscribe to our newsletters

औरैया, 16 नवम्बरमासः (हि. स.)। उत्तरप्रदेशस्य औरैया–जनपदे पुलिस–अधीक्षकस्य अभिषेक–भारती–निर्देशनस्य अन्तर्गतं रविवासरे महिला–थाना ककोर मध्ये प्रोजेक्ट् नई किरण अन्तर्गतं विशेष–सत्रम् आयोजितम्। कार्यक्रमस्य अध्यक्षता महिला–थाना–प्रभारी अकुरुत। अस्मिन् काले पारिवारिक–विवादैः सम्बद्धानां ३५ सञ्चिकानां सुनवाई कृता।
कार्यक्रमे तादृशाः दश परिवाराः, ये आपसी–वैचारिक–मतभेदैः दीर्घकालं पृथक् निवसन्ति स्म, येषां च परस्पर–वर्तालापः अपि निरुद्धः आसीत्—तान् सर्वान् सामीप्ये उपविश्य सम्यक् अवबोधितम्। पुलिस–दलस्य परियोजना–सदस्यानां च प्रयासैः पतिपत्नी–मध्ये वर्तमानः मनोमन्युः, अविश्वासः, गृह–कलहः च निवारितः। अन्ते सर्वे दश परिवाराः पुनः सहवासाय सज्जाः अभवन्।
महिला–थाना–प्रभारी अवदत् यत् प्रोजेक्ट् नई किरणस्य उद्देश्यः—आपसी–विवाद–जनितैः कारणैः विखण्डितान् परिवारान् पुनः संयोजयितुम्, सामाजिक–स्तरे स्थिरतां च स्थापयितुम्। परिवारान् परस्पर–सहमत्याः आधारात् सुलहं कृत्वा हर्षेण प्रेषितवन्ति।
कार्यक्रमे प्रोजेक्ट् नई किरण–समूहस्य अन्ये सदस्याः अपि उपस्थिताः। पुलिस–प्रशासनस्य मतं यत् एतादृशाः प्रयासाः केवलं विवादान् न न्यूनं करिष्यन्ति, अपितु परिवार–मध्य–सद्भावस्य वृद्धौ अपि अतिशयम् उपकारकाः भविष्यन्ति।
हिन्दुस्थान समाचार