स्वयंसेवकानां भाव बलेन जीवन बलेन चलति संघः डॉ. मोहनराव भागवतः
जयपुरम्, 16 नवंबरमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ मोहनरावभागवत महोदयः अवदत् यत् स्वयंसेवकानां भावबलजीवनबलाभ्यां एव संघकार्यं प्रवर्तते। मनोवृत्त्या प्रत्येकः स्वयंसेवकः स्वयमेव प्रचारकरूपं वहति। एष एव संघस्य प्राणः। संघ इत्यु
पुस्तक का अवलोकन करते हुए डॉक्टर मोहन राव भागवत।


ग्रंथ का विमोचन करते हुए सरसंघचालक डॉक्टर मोहन राव भागवत


जयपुरम्, 16 नवंबरमासः (हि.स.)।

राष्ट्रियस्वयंसेवकसंघस्य सरसंघचालकः डॉ मोहनरावभागवत महोदयः अवदत् यत् स्वयंसेवकानां भावबलजीवनबलाभ्यां एव संघकार्यं प्रवर्तते। मनोवृत्त्या प्रत्येकः स्वयंसेवकः स्वयमेव प्रचारकरूपं वहति। एष एव संघस्य प्राणः। संघ इत्युक्ते वयं स्वयंसेवकाः, तथा च तेषां जीवनस्य भावबलं च संघनामधेयं भवति।

अद्य संघस्य विस्तारः जातः। कार्यदृष्ट्या अनुकूलताः सुविधाश्च बहुधा वर्धिताः, किन्तु तत्रैव कतिचन हानयः अपि प्राप्ताः। अतः अस्माकं स्थितिः सा एव भवितव्या या उपेक्षाविरोधयोरपि आसीत। तेनैव भावबलेन संघस्य प्रगतिर्भविष्यति।

डॉ भागवत महोदयः ज्ञानगङ्गाप्रकाशनस्य आयोजनमण्डपे नारदसभागारे ...और यह जीवन समर्पित इति ग्रन्थस्य लोकार्पणसमारेम्भे भाषमाणाः आसन्। अयं ग्रन्थः राजस्थानप्रदेशस्य दिवंगतचतुर्विंशतिसंस्थापितप्रचारकाणां जीवनकथानां सुन्दरः संग्रहः अस्ति।

ते अवदन् यत् संघकार्यं केवलं श्रुत्वा न ग्रह्यते। तस्य तत्वं प्रत्यक्षानुभवेनेव बोध्यते, यत् संघकार्ये प्रत्यक्षभागीदारेणैव सुलभम्। अनेकैः संघप्रतिस्पर्धां मनसि कृत्वा संघसदृशाः शाखाः आरब्धाः, किन्तु न कस्यापि शाखा पन्द्रहदिनात् अधिकं स्थित्वा प्रवृत्तिः लब्धवती। अस्माकं शाखा तु शताब्दीयात्रां वहन्ती निरन्तरं वर्धमानाचलति। कारणं तु केवलं एकम् स्वयंसेवकानां भावबलजीवनबलयोः आश्रयः।

भागवत महोदयाः अवदन् यत् अद्य संघकार्यं समाजचर्चायाः विषयः तथा स्नेहस्य आदरस्य च केन्द्रभूतम्। स्वयंसेवकैः प्रचारकैः वा यत् कृतं तत् समाजे सर्वत्र प्रसिद्ध्यापन्नम्। ते स्मरन्ति यत् शतवर्षपूर्वं केनचित् अपि न कल्पितं यत् केवलं शाखायाः माध्यमेन राष्ट्रस्य विमर्शरूपेण किमपि साध्यते इति। जनाः तदा वदन्ति स्म यत् व्योमनि दण्डनर्तनं कुर्वन्ति इमे इति, किं राष्ट्ररक्षणं करिष्यन्ति? किन्तु अद्य संघः शताब्दीमाचरति समाजे च तस्य स्वीकार्यता अतिवर्धिता दृश्यते।

दानप्रमुखस्य तथा वरिष्ठस्वयंसेवकानां जीवनकथासूत्रितनवग्रन्थस्य ...और यह जीवन समर्पित इति नाम्ना निर्दिष्टस्य महत्त्वं दर्शयन् भागवत महोदयः उक्तवन्तः यत् अयं ग्रन्थः केवलं गौरवभावं न जागरयति परन्तु कठिनमार्गे चरितुं साहसं प्रेरणां च ददाति। स्वयंसेवकानां प्रति ते आह्वानं कृतवन्तः यत् एतां परम्परां केवलं पठनीयाम् न तु जीवनस्य आचरणेऽपि स्थापनीया। यदि तेषां तेजसः एकः कणः अपि अस्माकं जीवने धृतः तर्हि वयं अपि समाजं राष्ट्रञ्च प्रकाशयितुं समर्थाः स्याम।

समारम्भस्य आरम्भे ग्रन्थस्य परिचयः प्रस्तावनाच संपादकेन भागीरथचौधरी महोदयेन प्रस्तुतः। कृतज्ञतां ज्ञानगङ्गाप्रकाशनसमितेः अध्यक्षः डॉ मुरलीधरशर्मा प्रदर्शितवान्। समितेः उपाध्यक्षः जगदीशनारायणशर्मा महोदयः सरसंघचालकस्य स्वागतं अंगवस्त्रेण स्मृतिचिह्नेन च कृतवान्। कार्यक्रमे राजस्थानक्षेत्रसंघचालकः डॉ रमेशचन्द्रअग्रवाल सहिताः अनेकाः मान्यजनाः उपासिताः।

---------------

हिन्दुस्थान समाचार