Enter your Email Address to subscribe to our newsletters

नवदेहली, 16 नवम्बरमासः (हि.स.)। अद्य दिल्लीप्रदेशस्य मुख्यमन्त्री रेखा गुप्ता यमुन-क्रीडाङ्गणे सम्पन्ने सांसद-क्रीडा-महोत्सवस्य अन्तर्गते ‘नमो रन् फॉर् रोड् सेफ्टी’ इति विशेष-दौडस्य झण्डी-प्रदर्शनं कृत्वा ताम् आरब्धवती। अस्मिन् प्रसङ्गे दिल्लीराज्याध्यक्षः वीरेंद्रः सचदेवः अपि उपस्थितः।
मुख्यमन्त्री एक्स् इति सामाजिक-जालस्थले लिखित्वा अवदत् यत् पूर्वदिल्ली-क्षेत्रे सांसदेन च केन्द्रराज्यमन्त्रिणा च हर्ष-मल्होत्रेण सांसद-क्रीडा-महोत्सवः सुशासनेन प्रवर्त्यते। तस्यैव श्रृंखलायां युवजनानां कृते एषा विशेषा रोड्-सेफ्टी-दौड् आयोजिताऽभूत्, यस्य मुख्योद्देशः सड़क-सुरक्षायाः विषये व्यापक-जनजागरूकतायाः सुदृढीकरणम्।
मुख्यमन्त्री अवदत् यत् यदा वयं सर्वे यातायात-नियमपालनं कुर्मः, धैर्येण संयमेण च वाहनं चलयामः, स्वयम् अपि सजगाः स्यामः च परान् अपि सजगान् कुर्याम, तदा एव मार्गाः सुरक्षिताः भविष्यन्ति। सड़क-सुरक्षा अनुशासनस्य, जागरूकतायाः, सामूहिक-दायित्वस्य च प्रतीकः अस्ति। सा अवदत् यत् आगच्छाम, वयं सर्वे मिलित्वा सड़क-सुरक्षायाः विषये जनजागरूकतां प्रसारयाम। सुरक्षितं चलाम, सुरक्षितं चालयाम।
अस्मिन् कार्यक्रमे विधायकाः अरविन्दरसिंह-लवली, रविकान्तः, संजय-गोयलः, अभय-वर्मा च अन्ये बहवः जनाः उपस्थिताः आसन्।
विधायकः अरविन्दरसिंह-लवली एक्स् जालस्थले लिखित्वा अवदत् यत् ‘नमो रन् फॉर् रोड् सेफ्टी’ इत्यस्मिन् सहभागीभूत्वा युवा-शक्तेः उत्साहस्य ऊर्जायाः अनुशासनेन च अद्भुतः संयोगः द्रष्टुं लब्धः। सः अवदत्—प्रधानमन्त्री नरेन्द्र-मोदिनाऽभिनियतं फिट्-इण्डिया-आन्दोलनम् केवलं क्रीडां न प्रोत्साहयति, अपितु युवासु अनुशासनम्, आत्मविश्वासम्, राष्ट्रीय-गौरवभावनां च बलवत्तरं करोति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता