सनातन संस्कृतिः शाश्वता, समावेशिनी, समग्रा प्रकृतेः अनुकूलसंस्कृतिरस्ति
नवदिल्ली, 16 नवंबरमासः (हि.स.)।सनातनसंस्कृतेः संरक्षणं संवर्धनं च तथा तस्याः गौरवपूर्णस्य मूल्यनिष्ठस्य अनन्तइतिहासस्य प्रचारप्रसारणं कर्तव्यं यत् भारतस्य प्रत्येकस्य सनातनीजनस्य अन्तःकरणे स्वधर्मे स्वसमाजे स्वसंस्कृतौ च सत्यश्रद्धा संवेदनाचेतना च
सनातन संत सम्मेलन 2025


'सनातन संत सम्मेलन 2025'


नवदिल्ली, 16 नवंबरमासः (हि.स.)।सनातनसंस्कृतेः संरक्षणं संवर्धनं च तथा तस्याः गौरवपूर्णस्य मूल्यनिष्ठस्य अनन्तइतिहासस्य प्रचारप्रसारणं कर्तव्यं यत् भारतस्य प्रत्येकस्य सनातनीजनस्य अन्तःकरणे स्वधर्मे स्वसमाजे स्वसंस्कृतौ च सत्यश्रद्धा संवेदनाचेतना च जागरूका भवेत्। सनातनसंस्कृतिः शाश्वता समावेशिनी समग्रा प्रकृतिसंगताच संस्कृतिः। एतानि वचनानि नवीदिल्लीस्थिते भारतमण्डपे ओम् सनातन न्यास इति संस्थया आयोजिते भव्यधार्मिककार्यक्रमे सनातनसन्तसम्मेलने द्विसहस्रपञ्चविंशत्यधिके पञ्चविंशत्यां आगतानां सन्तानां समक्षे उक्तानि।

अस्मिन् अवसरे सन्तसमाजेन सनातनं राष्ट्रं च पुनः जागरूकं जीवितं च कर्तुं संकल्पः कृतः। एतत् आयोजनम् ओम् सनातन न्यासेन एकलविद्यालय एकलअभियान जे बी एम् ग्रूप् आफ् इन्स्टिट्यूशन इति सहयोगिसंस्थाभिः सह संयोजितम्। सम्मेलनस्य मुख्योद्देश्यः अस्ति यत् सनातनधर्मे राष्ट्रे च महापुरुषाणां आदर्शेषु निष्ठावान् नवयुवकानां पीढिः निर्मीयेत तथा तेषां अनुभवज्ञानआत्मकल्याणसिद्धान्तान् लोकजीवने प्रतिष्ठापयेत्।

कार्यक्रमस्य अध्यक्षतां कुर्वन् अयोध्याराममन्दिरसमितेः कोषाध्यक्षः स्वामीगोविन्ददेवगिरिजी महाराज अवदत् यत् अद्यकालस्य आवश्यकताऽस्ति यत् वयं सर्वे एकीभूय सनातनं विश्वे पुनः प्रतिष्ठापयेम। एषा संस्कृति: केवलं परम्परा न अपि तु मानवतायाः मार्गः। अस्याः संस्कृतेः सुदृढरूपेण भविष्यत्पीढिषु सम्प्रेषणं सर्वेषां कर्तव्यं इति। सः सर्वान् सन्तान् उपस्थितजनांश्च स्वागतं कृत्वा एकतायाः प्रेम्णः सामाजिकजागरूकतायाś्च संदेशं दत्तवान्। तेन भारतलोकशिक्षापरिषदं सनातनरत्नसम्मानेन सन्मानितम् तथा अन्यासां त्रिणां संस्थानां सनातनगौरवसम्मानः दत्तः।

जैनाचार्यः डाक्टर लोकेशमुनिजी विश्वशान्तिदूत इति विश्वविख्यातः वैश्विकानां चुनौतिनां विषये सारगर्भितं चिन्तनं प्रदत्तवान् अवदत् च यत् केवलं सनातनसंस्कृतिः एव मानवतां शान्तिसद्भावसमाधानानां मार्गे नेतुं समर्था।

कथावाचकः परमपूज्यः श्रीदेवकीनन्दनठाकुरजी महाराजः सनातनधर्मस्य एकतायाः शक्तेश्च प्रेरणादायी संदेशं प्रदत्तवान् तथा समाजे आध्यात्मिकजागरूकतायाः प्रदीपं प्रज्वालितवान्। श्रीगुरुद्वारप्रबन्धकसमितेः सलाहकारः सरदारः परमजीतसिंहजी युवानां प्रति सनातनजीवनमूल्येषु अनुरागस्य अपेक्षां व्यक्त्वा राष्ट्रैकतासद्भावयोः प्रवर्तनाय प्रेरणां दत्तवान्।

महन्तः रविन्द्रपूरीजी महाराजः राष्ट्रसंस्कृतीनाम् उत्थाने सन्तसमाजस्य भूमिकां विवृण्वन् स्वस्य ओजस्विनाः उद्बोधनेन सर्वान् प्रेरितवान्।

परमार्थनिकेतनस्य अध्यक्षः परमपूज्यः स्वामीचिदानन्दसरस्वतीजी महाराजः राष्ट्रियैकतां प्राकृतिकसंरक्षणम् मानवसेवां सनातनसंस्कृतेः संरक्षणसंवर्धनं च विषये अत्यन्तं सारगर्भितं संदेशं दत्तवान्। सः अवदत् यत् सनातनं न कदापि आरब्धम् न कदापि समाप्तं भविष्यति। एतत् अनादि अनन्तं च विश्वकल्याणस्य आधारशिलां वहति। सः मानवतां प्रेमकरुणानैतिकमूल्यानां मार्गे चलितुं आह्वानं कृतवान्।

अस्मिन् अवसरे कार्यक्रमस्य मुख्यातिथिरूपेण गुरुदत्तटण्डनयुक्ताः साध्वीऋतंभरा आचार्यमहामण्डलेश्वरस्वामीअवधेशनन्दगिरिजी महाराज काष्णीपीठाधीश्वरः स्वामीगुरुशरणानन्दजी महाराज योगर्षिः स्वामीरामदेवजी महाराज आचार्यमहामण्डलेश्वरः स्वामीबालकानन्दजी महाराज अखिलभारतीयसन्तमण्डलाध्यक्षः नारायणगिरिजी महाराज इत्यादयः शिक्षाविदः समाजसेविनः शोधकर्तारः वैज्ञानिकाः विचारकाः च उपस्थिताः।

कार्यक्रमस्य संचालनं ओम् सनातन न्यासस्य मुख्यसंयोजकेन नीरजरायजादेन स्मृतिकुच्छलया च कृतम्। ओम् सनातन न्यासस्य मुख्यसंरक्षकाः गौरवअग्रवालः योगेन्द्रगर्गः रमेशलोढिः वेदप्रकाशः इत्यादयः अपि विशेषरूपेण उपस्थिताः आसन्।

-------------------

हिन्दुस्थान समाचार