ब्राजीलस्य साओ पाउलो इत्यत्र अंताराष्ट्रिय आयुर्वेद सम्मेलनम् आयोजितम्
नवदिल्ली, 16 नवंबरमासः (हि.स.)। ब्राजील देशस्य साओ पाउलो नगरे सम्पन्ने तृतीय अन्तरराष्ट्रीय आयुर्वेद सम्मेलनस्य समये द्विदिनपर्यन्तं विशेषज्ञैः आयुर्वेदस्य चत्वारिंशद्वर्षपर्यन्तं यात्रायाः मूल्यांकनम् भारत ब्राजीलयोः वर्धमानं सहयोगम् पारम्परिक चि
ब्राजील के साओ पाउलो में अंतरराष्ट्रीय आयुर्वेद सम्मेलन आयोजित


नवदिल्ली, 16 नवंबरमासः (हि.स.)।

ब्राजील देशस्य साओ पाउलो नगरे सम्पन्ने तृतीय अन्तरराष्ट्रीय आयुर्वेद सम्मेलनस्य समये द्विदिनपर्यन्तं विशेषज्ञैः आयुर्वेदस्य चत्वारिंशद्वर्षपर्यन्तं यात्रायाः मूल्यांकनम् भारत ब्राजीलयोः वर्धमानं सहयोगम् पारम्परिक चिकित्सापद्धतीनां भविष्यदिशा नूतनाः अनुसन्धानसंधयः तथा ब्राजीलदेशे आयुर्वेदस्य अधिकृत नौकरी श्रेणी रूपेण स्वीकृतिः इत्यादयः महत्वपूर्णाः विषयाः चर्चिताः। तदनु डिसेम्बरमासे नवी दिल्ली नगरे भवितव्ये विश्व स्वास्थ्य संगठन आयुष मंत्रालय च आयोजितवतः वैश्विकसम्मेलनस्य तैयारीषु अपि चर्चा अभवत्।

स्वास्थ्य मंत्रालयस्य अनुसारम् कार्यक्रमस्य आरम्भः ब्राजीलस्थित भारतस्य राजदूत दिनेश भाटिया इत्यनेन कृतः। मंत्रालयेन उक्तं यत् भारत ब्राजीलयोः मध्ये पारम्परिक चिकित्साविधानानि विषयीकृत्य सहयोगः निरन्तरं वर्धमानः। ब्राजील दक्षिण अमेरिका खण्डस्य प्रथमं राष्ट्रम् यस्य द्वारा आयुर्वेदस्य अधिकृतमान्यता प्रदत्ता। अस्य वर्षस्य पूर्वमेव ब्राजीलदेशस्य उपराष्ट्रपति जेराल्डो अल्कमिन भारतयात्रा कृत्वा अस्य साझेदारीस्य सुदृढीकरणं कृतवान्।

आयुष मंत्रालयस्य सचिव वैद्य राजेश कोटेचा स्वीय भाषणे अवदत् यत् आयुर्वेदः शरीर मनस् जीवनशैली च एतेषां सम्यक् संतुलनं आधारयन् एकः विज्ञानः अस्ति। तेन उक्तं यत् उभयोः राष्ट्रयोः मध्ये सम्पन्नाः समझौताः संस्थागतसहयोगः च आयुर्वेदस्य वैश्विकविस्ताराय अत्यन्तं सहायकाः भवन्ति। स ब्राजीलदेशे बहुवर्षपर्यन्तं आयुर्वेदप्रचारणाय तत्परान् विशेषज्ञान् अपि प्रशंसितवान्।

स्वामी विवेकानन्द सांस्कृतिक केन्द्रस्य निदेशिका ज्योति किरण शुक्ला अवदत् यत् भारतस्य ब्राजीलस्य च वेलनेस परम्परासु समानत्वं दृश्यते उभे राष्ट्रे मिलित्वा अस्य क्षेत्रस्य सुदृढीकरणं कुर्वन्ति।

सम्मेलनकाले विभिन्नेषु विषयेषु व्याख्यानाः चर्चाः च अभवन्। विशेषज्ञैः आयुर्वेदस्य वैज्ञानिकसम्भावनाः प्रशिक्षणव्यवस्था तस्य च स्थानिकस्तरे वर्धमानं प्रयोगं विषये स्वाः अभिप्रायाः प्रस्तुताः। मंत्रालयेन सूचितम् यत् अद्य ब्राजील राष्ट्रे आयुर्वेदः अधिकृत नौकरी श्रेणी सूचीमध्ये समाविष्टः यः तत्र अस्य पद्धतेः विस्तारार्थं महान् चरणः मन्यते।

स्वामी विवेकानन्द सांस्कृतिक केन्द्रस्य ब्राजील राष्ट्रीय आयुर्वेद आत्मनियमनपरिषदस्य नेतृत्वेन च चतुर्दश पञ्चदश नवम्बरतिथिषु आयोजिते अस्मिन् कार्यक्रमे बहुसंख्याः विशेषज्ञाः अनुसन्धानकर्तारः विद्यार्थिनः च सम्मिलिताः।

कार्यक्रमस्य समापनं ब्राजीलदेशे आयुर्वेदस्य आगामि चत्वारिंशद्वर्षपर्यन्तं सम्भावनाः चुनौतयः च विषये आयोजितया गोलमेज चर्चया अभवत्।

---------------

हिन्दुस्थान समाचार