Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 16 नवंबरमासः (हि.स.)।
उत्तराखण्डदेशीयः पवनबर्तवालः वर्ल्डबॉक्सिंगचैम्पियनशिपे भारतस्य प्रतिनिधित्वं करिष्यति। रुद्रप्रयागजनपदे सठेराखालनिवासी पवनबर्तवालः ग्रेटरनोएडास्थिते 14-20 नवम्बरपर्यन्तं आयोज्ये वर्ल्डबॉक्सिंगचैम्पियनशिपे भारतस्य प्रतिनिधित्वं कर्तुं उत्तराखण्डदेशीयः एकः एव क्रीडकः अस्ति।
विश्वबॉक्सिंगचैम्पियनशिपे अष्टाशीत्यधिकदेशानां क्रीडकाः सहभागं कुर्वन्ति।
पवनबर्तवालः वर्षे 2010-17 मध्ये देहरादूनस्थे महाराणाप्रतापस्पोर्ट्सहॉस्टले कोच ललितकुंवरस्य मार्गदर्शनस्य अधीनं प्रशिक्षणं कृतवान्। राज्य-राष्ट्रियस्तरेषु अनेकप्रतियोगितासु उत्कृष्टप्रदर्शनं कृत्वा पवनः वर्तमानकाले भारतीयसेनायाः प्रतिष्ठितबॉक्सिंगप्रशिक्षणकेन्द्रे एएसआई पुणे प्रशिक्षणं प्राप्तवान्।
उत्तराखण्डमुक्केबाजीसंघस्य उपाध्यक्षः रोहनसहगलः अवदत् यत् वर्षे 2017 मध्ये 9 गढ़वालराइफल्समध्ये भर्तीभूतः पवनः सततं उत्कृष्ठप्रदर्शनं कृत्वा वर्षे 2021 मध्ये भारतीयसेनाटीमेनैव नेशनलचैम्पियनशिपे सहभागं कृतवान्। वर्षेषु 2023, 2024, 2025 सेनाटीमस्य चैम्पियनः अभवत् तथा राष्ट्रियप्रतियोगितासु सततं द्विवर्षे 2024-2025 रजतपदकम् अर्जयित्वा स्वक्षमतां प्रदर्शितवान्।
पवनः वर्षे 2024 कज़ाखस्ताने, 2025 थाईलैंडोपेने च सहितानि अनेकअन्तरराष्ट्रीयप्रतिस्पर्धासु भारतस्य प्रतिनिधित्वं कृतवान्।
---
हिन्दुस्थान समाचार