पोप लियो कथितवान्-चलचित्रं सत्यं दर्शयेत्, आशायाः संचारितृ चलचित्रम्
वेटिकन सिटी, 16 नवंबरमासः (हि.स.) पोप लियो महोदयेन उक्तम् यत् चलच्चित्राणि सत्यम् एव प्रकाशयेयुः। सिनेमा तथा रूपं निबध्यताम यत् सामान्यजनानां हृदयेषु आशाया संवर्धनम् जनयति। अद्यतनस्य विश्वस्य विषये आशां सौन्दर्यं सत्यं च प्रकाशयितुं विश्वसिनेमा क्
अपोस्टोलिक पैलेस में पोप के पहुंचने पर सभी लोग सम्मान में खड़े गए। फोटो -वेटिकन न्यूज


वेटिकन सिटी, 16 नवंबरमासः (हि.स.)

पोप लियो महोदयेन उक्तम् यत् चलच्चित्राणि सत्यम् एव प्रकाशयेयुः। सिनेमा तथा रूपं निबध्यताम यत् सामान्यजनानां हृदयेषु आशाया संवर्धनम् जनयति। अद्यतनस्य विश्वस्य विषये आशां सौन्दर्यं सत्यं च प्रकाशयितुं विश्वसिनेमा क्षेत्रस्य महान्तः नटाः निर्मातारः निर्देशकााः पटकथालेखकाः च अस्माभिः आहूयन्ताम इति ते चुनौतीम् अकुर्वन्।

पोप लियो चतुर्दशेन विहिते वेटिकन् राजप्रासादे शनिवासरे प्रातः काले विश्वसिनेमा जगतः प्रमुखानां अतिथीनां स्वागतसमारोहे एषः संदेशः उक्तः।

वेटिकन् वार्तापत्रस्य वृत्तान्तानुसारम् पोपे उक्तवान् यत् सिनेमा केवलं पटः न भवति अपितु तस्मात् अतिविशालं प्रभावक्षेत्रम् अस्ति। सिनेमा आशां मूर्तिरूपेण दर्शयति। पेरिस नगरस्य सन उन्नविंशतिशतस्य पंचनवतितमे वर्षे प्रथमस्य चलच्चित्रस्य प्रक्षेपणात् अनन्तरं प्रायः एकत्रिंशदशतानां वर्षाणि व्यतीतानि भवन्ति इति स्मारयन् पोपे सिनेमा जगतः महत्त्वम् अवदत्।

ते अवदन् यत् अद्यतनकाले सिनेमा विश्वस्य अवबोधाय विशेषमाध्यमम् अभवत्। इदं माध्यमम् अनन्ततायाः आकांक्षां चित्रितुं मानवानां आन्तरिकेच्छायाः अभिव्यक्तिरूपेण परिवर्तितम्।

पोपेन सिनेमा विषये कृतज्ञता व्यक्ता। तेन अवोचत् यत् एतत् खलु लोकप्रियकलारूपम्। सर्वेषां जनानां कृते उपलब्धम् अस्ति। केवलं मनोरंजनम् इति न किन्तु जनजीवनस्य यात्रायााः आख्यानरूपेण अस्ति।

ते अवदन् यत् सिनेमा मनुष्यजातीस्य महान् उपकारकः अस्ति। इदं माध्यमं लोकान् विश्वस्य परीक्षायाः नूतनदृष्टिं ददाति। आत्मावलोकनम् अपि जनयति येन जनाः जीवनस्य सार्थकत्वं नूतनया आशया अनुभवन्ति।

पोपेन उक्तम् यत् सिनेमा मध्ये निमग्नतया अस्माकं चेतनायाः नवीनसंस्पर्शः भवति। प्रेक्षागृहस्य अन्धकारे इन्द्रियाणि सजीवानीव भवन्ति तथा मनः अभिनवविचारानां प्रति उद्घाटितम् इव भवति। उपस्थापिताः कथानकाः मनोरञ्जनं अन्विष्यन्तं जनान् एव न स्पृशन्ति किन्तु अर्थस्य सौन्दर्यस्य न्यायस्य च खोजां कुर्वन्तं जनान् अपि प्रेरयन्ति।

इदानींतने युगे यत्र दृश्यपटलानि सर्वत्र दैनन्दिनजीवने वर्तन्ते तत्र सिनेमा अधिकं दातुं समर्थं भवति।

पोपेन जोर्युक्त्या उक्तम् यत् सिनेमा इच्छानां स्मृतयाः प्रश्नानां च संगमस्थलम् अस्ति। प्रेक्षागृहं च चलच्चित्रं च समुदायानां हृदयम् इव सञ्जीवयतः तानि समुदायान् अधिकं मानवीयं कुर्वन्ति।

सिनेमा उद्योगं ते सांस्कृतिक सामाजिक मूल्येषां संरक्षणाय प्रोत्साहितवन्तः। कला नूतनसाध्यतानां द्वाराणि उद्घाटयति इति अपि अवदत्।

सत्यं सिनेमा केवलं सांत्वनां न ददाति अपि तु प्रश्नानां आव्हानं करोति। हृदयस्य अन्तःस्थेषु निहितेषु विचारेषु चिन्तनाय प्रवर्तयति।

ते अवदन् यत् उपस्थिताः सर्वे अपि आशायाः तीर्थयात्रिकाः इव सन्ति। चर्च् संस्थायाः सिनेमा च जगतः मित्रतायाः नूतनीकरणम् अपि ते इच्छन्ति।

ते अवदन् यत् सिनेमा आशायाः कार्यशाला अस्ति। सौन्दर्यं सत्यं च एतेषां साक्षी भवितुं सिनेमा समर्थः। अद्यतनस्य जगतः तस्य अत्यावश्यकता वर्तते।

अन्ते अमेरिकादेशीयया नट्या केट ब्लांकेट् नाम्नी पोपे कङ्कणं दत्तम्। स्पाइक ली इति अमेरिकीयचलच्चित्रनिर्माता पोपे न्यूयॉर्क निक्स् इति क्रीडादलेन निर्दिष्टं बास्केटबाल वस्त्रं समर्पितवान्।

---------------

हिन्दुस्थान समाचार