मीरजापुरे संस्कृत–शिक्षकाणां समीक्षागोष्ठी, शिक्षण–गुणवत्ता–सुदृढीकरणे विशेषः आग्रहः
मीरजापुरम्, 16 नवम्बरमासः (हि.स.)। उत्तर–प्रदेशस्य मीरजापुर–जनपदे खैरा–बगहा स्थिते श्री–जोखन–राम–संस्कृत–उच्चतर–माध्यमिक–विद्यालये रविवासरे मण्डलीय–उप–निरीक्षकः संस्कृत–पाठशालाः विंध्याचल–मण्डलस्य राज–कुमार–दीक्षितस्य अध्यक्षतायाम् जनपदस्य संस्कृत–
संस्कृत विद्यालयों के शिक्षक, शिक्षिकाएं, प्रधानाचार्य और प्राचार्य के साथ


मीरजापुरम्, 16 नवम्बरमासः (हि.स.)। उत्तर–प्रदेशस्य मीरजापुर–जनपदे खैरा–बगहा स्थिते श्री–जोखन–राम–संस्कृत–उच्चतर–माध्यमिक–विद्यालये रविवासरे मण्डलीय–उप–निरीक्षकः संस्कृत–पाठशालाः विंध्याचल–मण्डलस्य राज–कुमार–दीक्षितस्य अध्यक्षतायाम् जनपदस्य संस्कृत–शिक्षकाणां समीक्षागोष्ठी आयोजिताभूत्।

गोष्ठी आरम्भः सहायक–अध्यापकेन बलभद्र–शुक्लेन माल्यार्पणेन, अध्यापिका–कंचना–मिश्रया पुष्प–गुच्छस्य समर्पणेन, तथा प्रभारी–प्रधानाचार्या माधुरी–तिवार्या अंगवस्त्र–प्रदान–पूर्वकं उप–निरीक्षकस्य सम्मान–समारोहेन अभवत्। अस्मिन् समये पठन–पाठन–व्यवस्था, अर्धवार्षिक–परीक्षा, छात्रवृत्ति–वितरणम्, विद्यार्थिनां अधिगम–स्तर–सुधारः, संस्कृत–शिक्षाया उन्नयनम् इति गुरुतर–विषयानां विषये विस्तृत–चर्चा कृता।

अस्मिन् अवसरे जनपदस्य सर्वे संस्कृत–माध्यमिक–विद्यालय–शिक्षकाः, शिक्षिकाः, प्रधानाचार्याः तथा प्राचार्याः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार