Enter your Email Address to subscribe to our newsletters



पूर्वी सिंहभूमम्, 16 नवंबरमासः (हि.स.)।
नगरस्य अन्ते शनिवासरे रात्रौ आरब्धं संवाद द्विसहस्र पञ्चविंशति नामकं कार्यक्रमम् अस्य वर्षस्य विशेषत्वेनाभवत यतः एतत् आयोजनं झारखंडराज्यस्य पञ्चविंशतितम राज्यस्थापनादिनं धरत्याबा बिरसामुण्डस्य शतपञ्चाशतितम जन्मजयन्तीं च समर्पितम् आसीत।
कार्यक्रमस्य आरम्भः मुंडा संथाल उरांवजनजातीनां पारम्परिकप्रार्थनाभिः अभवत। ततः अनन्तरं हो जनजातेः परम्परानुसारं अखडस्य शुद्धीकरणक्रिया निरवर्तत या सम्पूर्णं वातावरणं पवित्रतया सामुदायिकैकताभावेन च पूरितवती। टाटा स्टील फाउंडेशन सम्बन्धिताः ते बालकाः येषां क्रीडास्पर्धासु उत्कृष्टं प्रदर्शनं देशस्य गौरवं वर्धितवन्तः ते आदिवासीवृद्धानां स्वागतं कृत्वा समारोहस्य चैतन्यम् अधिकं कृतवन्तः।
अस्मिन् विशेषावसरे संथालसमुदायस्य देशपरगना बैजुमुर्मू तोरोपपरगना दशमथहांसदाः च होसमुदायस्य पीरमांकी गणेशपातपिंगुआ भूमिजसमुदायस्य प्रधानउत्तमसिंहसरदार इत्येते प्रतिष्ठितप्रतिनिधयः उपस्थिताः आसन्। पद्मश्री चामीमुर्मू पद्मश्री जनुमसिंहसोय इत्युभौ स्वीयया उपस्थित्या प्रेरणादायिन्या व्यक्तिमत्त्वेन च कार्यक्रमस्य गौरवं नूतनैः उच्चैः स्तरैः नीतवन्तौ। तयोः सह तोलोंगसिकीस्य जनकः डाक्टर नारायणउरांव पाहन्नियारेंहेरेंज चापि महत्वपूर्णं योगदानं दत्तवन्तः।
कार्यक्रमस्य वैशिष्ट्येषु टाटा स्टील फाउंडेशन इति संस्थायाः अध्यक्षः टी वी नरेंद्रन निदेशकः डी बी सुंदरा रामम मुख्यकार्यपालकः सौरवराय इति जनाः अपि प्रमुखतया उपस्थिताः आसीत। सौरवराय महोदयेन संवाद कार्यक्रमः आदिवासीसमुदायानां सहस्राब्दीकालपरम्परायाः ज्ञानपद्धतेः सांस्कृतिकविविधतायाश्च सजीवं मंचरूपं इति वर्णितः।
दिनपर्यन्तं संवादस्य विविधानि सत्राणि प्राचीनादिवासीभोज्यपरम्परा संवादफेलोशिपस्य आरम्भः आदिवासीचित्रपटकले विषये संयुक्तचर्चा इत्यादिभिः कार्यक्रमैः सम्पन्नानि। आतिथ्य नामके भोजनगृहद्वारे द्वादश जनजातीनां एकोनविंशतिः होमकुक्काः स्वपरम्परानुसारं व्यञ्जनानि पक्तवन्तः येषां स्वादं जनाः गोपालमैदानस्य स्टाल्स नामकेषु तथा जोमेटोमार्गेण अपि आस्वादितवन्तः। अष्टादशराज्येषु त्रिंशत् जनजातिषु च उत्पन्नाः चतुस्त्रिंशद्विशेषकलाशैलयः प्रदर्शनीरूपेण भारतस्य आदिवासीपरम्परां नूतनेन रूपेण अवलोकितवन्तः। पारम्परिकवैद्याः अपि स्वीयाः उपचारपद्धतयः प्रदर्शयित्वा जनान् आकर्षितवन्तः।
संवाद द्विसहस्र पञ्चविंशति कार्यक्रमः सम्पूर्णं सप्ताहं यावत् प्रवर्तिष्यते तथा देशस्य सर्वतः आगतैः आदिवासीसमुदायैः स्वीयं सांस्कृतिकपरिचयं परम्परां च संरक्षितुं प्रकटयितुं च अवसरो दास्यते।
---------------
हिन्दुस्थान समाचार