Enter your Email Address to subscribe to our newsletters

—निर्धारितधावनस्य शारीरिक परीक्षणस्य अनंतरं गाजीपुरस्य 607 अभ्यर्थिनः अग्रिम चरणे
वाराणसी,17 नवम्बरमासः (हि.स.)।
उत्तरप्रदेशस्य वाराणसीस्थितछावनीप्रदेशे रणबांकुराखेलाङ्गणे दृढरक्षायाम् अग्निवीरसेनाभर्तीरॅलि सोमवासरे गाजिपुरमऊजनपदयोः अभ्यर्थिनां चयनप्रक्रिया शान्तिपूर्वकं सम्पन्ना। प्रातःकाले एव खेलेङ्गणपरिसरे अभ्यर्थिनां दीर्घश्रेणयः उत्साहश्च दृश्येते स्म।
सैन्याधिकारिणां वचनुसारं अद्य समग्रे एकसहस्रद्विशतृंश्यधिकपञ्चत्रिंशद्भ्यः अभ्यर्थिभ्यः आह्वानं कृतम् यत्र गाजिपुरात् चत्वार्यधिकपञ्चशतं मऊतः सप्ताधिकसप्तशतम् अभ्यर्थिनः आहूताः आसन्। तेषु नवशतद्विसप्ततिः अभ्यर्थिनः उपस्थिताः। निर्दिष्टदौड्परीक्षणं शारीरिकमवलोकनं च सम्पन्नम् अनन्तरं षट्शतानां सप्तानां अभ्यर्थिनां सफलता प्राप्ता ते च परं चरणं प्राप्तवन्तः।
भर्तीरॅलिस्य आगामीचरणस्य अपि सर्वतया व्यवस्थाः सिद्धाः सन्ति। वाराणसीस्थितसेनाभर्तीनिदेशकः कर्नेल्शैलेषकुमारस्य कथनुसारं मंगलवासरे अष्टादशे नवम्बरमासे मिर्जापुरजनपदस्य सदरलालगंजमडिहान्चुनार् भदोहीजनपदस्य सदरज्ञानपुरौराई तथा गोरखपुरजनपदस्य खजनीतहसील प्रदेशेभ्यः समग्रे एकसहस्रद्विशतचतुःषष्ट्यधिकचतुः अभ्यर्थिनां चयनप्रक्रिया भविष्यति।
सेनाविभागेन प्रशासनिकाधिकारिभिश्च सर्वाः व्यवस्थाः सूक्ष्मदर्श्येण निरीक्ष्यन्ते यत् आगामिचरणमपि निर्विघ्नं सुरक्षितं च भवेत्। क्षेत्रे उपस्थिताः भर्तीमण्डलस्य सदस्याः सुरक्षा दलं प्रशासनिकाधिकारीणश्च सुचारुव्यवस्थां निष्कण्टकं सुनिश्चितवन्तः। इतरेषु अभ्यर्थिषु चयनलाभे उत्साहः प्रतिस्पर्धा च सर्वदिनं दृष्टा। सैन्याधिकारीणश्च दौड्काले अभ्यर्थिनः उत्साहितान् अपि कुर्वन्तः दृश्यन्ते स्म।
---------------
हिन्दुस्थान समाचार