Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्,17 नवम्बरमासः (हि.स.)। श्रीरामजन्मभूमेः आन्दोलनस्य पुरोधाः, विश्वहिन्दुपरिषदः पूर्वम् अन्तर्राष्ट्रीयाध्यक्षः अशोकः सिंघलः इति अस्याः पुण्यतिथेः अवसरि उपमुख्यमन्त्रिणा केशवप्रसादेन मौर्येण तस्य छायाचित्रे पुष्पाञ्जलिरर्प्य विनम्रा श्रद्धाञ्जलिः दत्ता।
केशवप्रसादेन मौर्येण स्वस्य सोशल्-मीडियाखाते ‘एक्स्’ इति उपस्थापने लिखितम् यत्— “मातृभूमेः सेवा, धर्मरक्षणाय च अशोकसिंघलस्य अद्वितीयं योगदानम् राष्ट्रम् युगान्-युगान्तराणि कृतज्ञभावेन स्मरिष्यति।”
अनन्तरम् उपमुख्यमन्त्रिणा लखनऊ-स्थिते कैम्प्-कार्यालये, सप्त-कालिदास-मार्गे ‘जनतादर्शन’ इत्यस्मिन् कार्यक्रमे विभिन्नजनपदात् आगतानां नागरिकानां समस्याः श्रुताः, तेषां च प्रभावी-समाधानार्थं सम्बन्धित-अधिकृतान् प्रति आवश्यकाः निर्देशाः दत्ताः।---------------
हिन्दुस्थान समाचार / अंशु गुप्ता