Enter your Email Address to subscribe to our newsletters

औरैय्याम्, 17 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य औरैय्या–जनपदे सोमवासरे जनपदाधिकारी डॉ. इन्द्रमणि त्रिपाठी महोदयः जूम–सम्मेलनेन विविधान् शासकीयकार्याणि योजनाश्च समीक्ष्य अधिकारीन् आदिशत्। तेनोक्तं यत् आईजीआरएस तथा सीएम–हेल्पलाइन इत्येताभ्यां प्राप्ताः सर्वाः पत्रसमस्या–सम्बद्धाः प्रार्थनापत्राणि गुणवत्तायुक्तं संतोषजनकं च निस्तार्यन्ताम्, सर्वथा निश्चित्यताम्। संतोष–प्रतिशतं वर्धयितुं प्रमुखता—इति चासौ अवदत्, तस्मिन् विषये काचित् अपि प्रमादः न सह्यते।
जनपदाधिकारी महोदयेन भारत–निर्वाचन–आयोग–सम्बद्धं गहनमतदार–पुनरीक्षणं, द्वितीयक–मतदार–सत्यापनं, तथा विशेष–प्रगाढ–पुनरीक्षणम् (SIR) इत्येतत् अत्यन्तं महत्वपूर्णमिति निर्दिश्य उपमण्डलाधिकारीभ्यः खण्ड–विकास–अधिकारीभ्यश्च अद्यैव ग्रामप्रधानैः सह सम्बन्धिनां सभा आह्वयितुं निर्देशाः दत्ताः। SIR–सम्बद्ध–प्रपत्राणां शीघ्रं संग्रहणं प्रगत्याशु–वर्धनं च करणीयमिति तेन उक्तम्।
तथैव ‘ऐप्’ सञ्चालयितुम् असमर्थाः बीएलओ–नामांकनाधिकारिणः तत्क्षणमेव प्रशिक्षिताः कर्तव्याः, विकासखण्ड–स्तरे फीडिङ्–कार्यं शीघ्रतया परिसमाप्तं करणीयमिति च निर्देशः दत्तः। बूथ–वारं नियुक्ताः बीएलओ–जनाः बीएलए तथा वालण्टियर–नामावलिं व्हाट्सएप्–द्वारा प्रेषयितुम् अपि उक्तम्।
जनपदाधिकारी महोदयेन 21 नवम्बर–तिथेः पूर्वं डिफॉल्ट्–भवन्ति ये सर्वे सन्दर्भाः, तेषां समयोचितं गुणवत्तापूर्णं निस्तारणं सुनिश्चितव्यं इति आदेशः कृतः। सार्धमेव फार्मर–पंजीकरण–कार्ये ग्राम–प्रधानानां सहयोगं स्वीक्रत्य तत्समाप्तिं समये कर्तुं विशेषं बलं दत्तम्।
हिन्दुस्थान समाचार / अंशु गुप्ता