मध्यप्रदेशस्य उज्जैननगरे राजकीयेन व्यवहाररूपेण नगरपर्यटनं करिष्यन्ति बाबा महाकालः, चन्द्रमौलेश्वरस्वरूपेण दर्शनं दास्यन्ति
अद्य भवति भगवतः महाकालस्य कार्तिक–मार्गशीर्षमासयोः अन्तिमा तथा शाही यात्रा। उज्जजैनम् १७ नवम्बरमासः (हि.स.) मध्यप्रदेशस्य उज्जैननगरे विश्वप्रसिद्धात् ज्योतिर्लिङ्गात् भगवतः महाकालेश्वरमन्दिरात् कार्तिक–मार्गशीर्षमासयोः निश्चरन्तीनां यात्रानां क्रम
भगवान महाकाल का राजा स्वरूप श्रृंगार


भगवान महाकाल की सवारी (फाइल फोटो)


अद्य भवति भगवतः महाकालस्य कार्तिक–मार्गशीर्षमासयोः अन्तिमा तथा शाही यात्रा।

उज्जजैनम् १७ नवम्बरमासः (हि.स.) मध्यप्रदेशस्य उज्जैननगरे विश्वप्रसिद्धात् ज्योतिर्लिङ्गात् भगवतः महाकालेश्वरमन्दिरात् कार्तिक–मार्गशीर्षमासयोः निश्चरन्तीनां यात्रानां क्रमशः अद्य सोमवासरे सायंकालं भगवतः महाकालस्य अन्तिमा (चतुर्थी) तथा राजकीययात्रा महोष्मभिरेव निःसृत्य नगरपर्यटनं करिष्यति। अवन्तिकानाथः रजतपालिकायां संस्थितः राजकीयमूर्त्या नगरं भ्रमन् स्वप्रजायाः स्थितिं ज्ञास्यति। अस्मिन् समये भगवान् महाकालः भक्तेभ्यः चन्द्रमौलेश्वरस्वरूपेण दर्शनं प्रदास्यति।

महाकालेश्वरमन्दिरप्रबन्धसमितेः प्रशासकः प्रथमः कौशिकः अवदत्—परम्परानुसारम् अद्य सायं चतुर्वादने भगवतः महाकालस्य कार्तिक–मार्गशीर्षमासयोः राजकीययत्रा नगरभ्रमणार्थं निःसरिष्यति। सवारीनिष्क्रान्तेः पूर्वं सभामण्डपे भगवतः चन्द्रमौलेश्वरस्य विधिवत् पूजनं कृत्वा रजतपालिकायां विराजयिष्यते। ततः पालिका मन्दिरस्य द्वारं प्रति नयिष्यते। मुख्यद्वारे सशस्त्रारक्षकदलस्य सैनिकैः भगवन्तं प्रति ‘गार्ड ऑफ ऑनर’ दास्यते। अनन्तरं सवारी आरभ्यते, यस्मिन् अश्वारोहिदलः, आरक्षकवाद्यदलः, मन्दिरसमितेः वाद्यदलः, भजनमण्डलयः तथा डमरुवादकयुवकानां दलानि सम्मिलिष्यन्ति।

यत्रा महाकालमन्दिरात् प्रवर्त्य महाकालचौराह, गुदरीचौराह, बक्षीबाजार, कहारवाडी गत्वा रामघाटं प्राप्स्यति। अत्र शिप्राजलेन भगवान् पूजितः अभिषिक्तश्च भविष्यति। ततः यात्रा रामतटात् गणगौरद्वारम्, मोढस्य धर्मशाला, कार्तिकचतुष्कम्, खातिकमन्दिरम्, सत्यनारायणमन्दिरम्, ढाबारोड्, टङ्कीचौराहः, छत्रीचतुष्कः, गोपालमन्दिरम्, पटनीबाजार, गुदरीबाजारम् इत्येतानि स्थानानि गत्वा पुनः श्रीमहाकालेश्वरमन्दिरं प्राप्स्यति। यात्रे अग्रे तोप-प्रहरकः, दण्डधारीणः, श्रीमहाकालेश्वरवाद्यदलः, आरक्षकवाद्यदलः, अश्ववाहकदलः, सशस्त्र-आरक्षकबलस्य सैनिकाः च भविष्यन्ति।

भस्मारत्या भगवतः महाकालस्य राजस्वरूपशृङ्गारः कृतः

विश्वविख्यातस्य ज्योतिर्लिङ्गस्य भगवतः महाकालेश्वरस्य मन्दिरे सोमवासरस्य प्रातःकाले भस्मारत्यां जटाधरभगवतः महाकालस्य भस्मना, चन्दनेन, आभरणैश्च राजस्वरूपेण अलङ्कारः कृतः। परम्परानुसारम्, प्रातःचतुर्वादने मन्दिरपट-उद्घाटनेन पण्डित–अर्चकः प्रथमं घंटालं वादयित्वा मन्दिरं प्रविश्य देवताध्यानं कृत्वा मन्त्रॊच्चारणेन ‘हरिओम्’ इत्यनेन जलं समर्पितवन्तः। अनन्तरं गर्भगृहे प्रतिष्ठितानां सर्वेषां देवप्रतिमानां पूजनं कृतम्। ततो भगवतः महाकालस्य जलाभिषेकः, तसेव दुग्ध–दधि–घृत–शर्करा–फलरसैः मिश्रितेन पंचामृतेन च अभिषेकः कृतः।

कपूरारत्यां कृतायां भगवतः शिरसिभस्मं, चन्दनं, त्रिपुण्डं च समर्प्य शृङ्गारः कृतः। शृङ्गारसमाप्तौ ज्योतिर्लिङ्गं वस्त्रेण आवृत्य भस्मारोपणं कृतम्। भस्मार्पणानन्तरं शेषनागस्य रजतमुकुटम्, रजत–मुण्डमाला, रुद्राक्षमाला, सुरभिपुष्पाणां मालाः च समर्पिताः। मोगर–गुलाबयोः सुगन्धिपुष्पैः भगवन् महाकालः अलङ्कृतः। फल–मिष्टान्नभोगौ समर्पितौ। भस्मारत्यां बहुसङ्ख्यकाः श्रद्धालवः उपस्थित्य भगवानमहाकालस्य आशीर्वादं प्राप्तवन्तः। महानिर्वाणी-अखाडस्य पक्षतः भगवन्तं प्रति भस्मं समर्पितम्। श्रद्धा अस्ति यत् भस्मार्पणानन्तरं भगवान् निराकाराद् साकाररूपेण दर्शनं ददाति।

हिन्दुस्थान समाचार / अंशु गुप्ता