बिहारस्य मुख्यमन्त्रिणा शासनं भङ्गयितुं अनुशंसा कृता, राज्यपालाय पत्रं समर्पितम्
पटना, 17 नवंबरमासः (हि.स.)। बिहारस्य मुख्यमन्त्रिणा नीतिशकुमारेन मन्त्रिमण्डलस्य अन्तिमसभायाः अनन्तरं राजभवनं गत्वा वर्तमानस्य मन्त्रिमण्डलस्य भङ्गनार्थं कृतानुशंसापत्रं राज्यपालाय आरिफमोहम्मदखानाय समर्पितम्। बिहार-शासनस्य मन्त्री विजयचौधरी इत्यने
बिहारस्य मुख्यमन्त्रिणा शासनं भङ्गयितुं अनुशंसा कृता, राज्यपालाय पत्रं समर्पितम्


पटना, 17 नवंबरमासः (हि.स.)। बिहारस्य मुख्यमन्त्रिणा नीतिशकुमारेन मन्त्रिमण्डलस्य अन्तिमसभायाः अनन्तरं राजभवनं गत्वा वर्तमानस्य मन्त्रिमण्डलस्य भङ्गनार्थं कृतानुशंसापत्रं राज्यपालाय आरिफमोहम्मदखानाय समर्पितम्।

बिहार-शासनस्य मन्त्री विजयचौधरी इत्यनेन प्रोक्तं यत् मन्त्रिपरिषद्-सभायां त्रयः प्रस्तावाः आगताः—वर्तमानम् विधानसभां 19 दिनाङ्कस्य प्रभावात् विघटयितुं कृतानुशंसा,शासनस्य नीतयः जनतायै सम्यक् प्रकारेण प्राप्ताः इति कारणेन सर्वेषां अधिकृतानां कर्मकराणां च आभारप्रदर्शनम्,तथा च निर्वाचनमध्ये राष्ट्रीयजनतान्त्रिकगठने (राजग) प्राप्तायाः विजये जनता प्रति कृतज्ञता-प्रदर्शनम् इति।सभायाः अनन्तरं मुख्यमन्त्री नीतिशकुमारः राज्यपालं समागत्य वर्तमान-विधानसभां 19 दिनाङ्कात् प्रभावात् विघटयितुं कृतानुशंसायाः पत्रं तस्मै समर्पितवान्, यस्य अनन्तरं नूतन-शासनस्य गठन-प्रक्रिया आरब्धा अस्ति।---------------

हिन्दुस्थान समाचार / अंशु गुप्ता