Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 17 नवम्बरमासः (हि.स.)। असमप्रदेशस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा इत्यनेन पञ्जाबकेसरिणः लालयाजपतरायस्य बलिदानदिने तं सादरं नमस्कृत्य श्रद्धाञ्जलिरर्पिता।
मुख्यमन्त्रिणा सरमेन स्वस्य सोशल्-मीडियासन्देशे उक्तम्—“राष्ट्रस्य स्वतंत्रतायै स्वप्राणान् अर्पयितुं तत्परः लालयाजपतरायस्य योगदानम् अविस्मरणीयम्। मातुर्भारत्याः अस्य वीरसपुत्रेण अंग्रेजशासकानां क्रूरताया: अत्याचाराणां च पुरतः अडिगत्वेन स्थित्वा देशवासिनां हृदये स्वतंत्रताज्योतिः प्रज्वलिता। तस्य अटूटः साहसः सर्वोच्चं च बलिदानं राष्ट्रभक्तेः भावना प्रत्येकनागरिके अधिकं दृढां करोति।”मुख्यमन्त्रिणा उक्तम् यत्, लालयाजपतरायस्य जीवनात् प्राप्ता प्रेरणा अद्यापि देशं प्रगत्यर्थं, राष्ट्रहितं च सर्वोपरि स्थापयितुं संदेशं ददाति।----------
हिन्दुस्थान समाचार / अंशु गुप्ता