Enter your Email Address to subscribe to our newsletters

रायपुरम् , 17 नवंबरमासः (हि.स.)।
छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे बस्तरसङ्भागस्य भ्रमणे भविष्यन्ति। मुख्यमन्त्री प्रातः एकादशवादनैः पञ्चविंशतिमिनिट् इति समये मुख्यमन्त्रीनिवासात् सिविल्लाइनप्रदेशात् निर्गम्य एकादशवादनैः त्रिंशन्मिनिट् इति समये रायपुरनगरस्य पुलिस्ग्राउन्ड् हेलिपेड् इत्यत्र आगत्य हेलिकोप्टरयानेन जगदलपुरनगरं प्रति प्रस्थिताः भविष्यन्ति।
जगदलपुरम् आगत्य द्वादशवादनैः पञ्चत्रिंशन्मिनिट् इति समये मुख्यमन्त्री पूनामार्गेम्परिसरम् आगमिष्यन्ति यत्र द्वादशवादनात् पञ्चत्रिंशन्मिनिट् आरभ्य द्वादशवादनान् पंचपनञ्चाशन्मिनिट् यावत् पण्डुम्कैफे नाम कैफे संस्थानस्य उद्घाटनकार्यं करिष्यन्ति।
ततः अपराह्ने एकवादने ते जगदलपुरनगरस्य जगतुमाहरा शासकीयबहुउद्देश्यीयोच्चतरमाध्यमिकविद्यालयं समागमिष्यन्ति। अत्र एकवादनात् द्विवादनं यावत् विद्यालयस्य शताब्दीवर्षस्य समारोहस्य उद्घाटनं करिष्यन्ति।
ततः द्विवादनात् त्रिंशन्मिनिट् समये विद्यालयकार्यक्रमात् निर्गत्य मुख्यमन्त्री द्विवादनैः पञ्चपञ्चाशन्मिनिट् समये टीबीपीमण्डीप्राङ्गणस्थं हेलिपेड् स्थलम् कोण्डागाँवप्रदेशे आगमिष्यन्ति।
त्रिवादने विकासनगरस्टेडियम् कोण्डागाँवप्रदेशे बुढादेवमहोत्सव द्विसहस्रपञ्चविंशति वर्षस्य अन्तर्गतं लोकार्पणशिलान्यासयोः कार्यक्रमे सहभागी भविष्यन्ति। अस्य कार्यक्रमस्य समयः त्रिवादनात् चतुर्वादनं यावत् भविष्यति।
हिन्दुस्थान समाचार