Enter your Email Address to subscribe to our newsletters



गोरखपुरम्, 17 नवंबरमासः (हि.स.)। मुख्यमन्त्रियोगी आदित्यनाथः सोमवासरे पीपीगञ्जप्रदेशस्य ग्रामे मखनहा-टोला-झगरहां इत्यत्र दीपकसिंहस्य गेहे सम्पन्ने मांगलिककार्ये सहभागी अभवत्। ते मङ्गलवासरे परिणयसूत्रबन्धने बध्यमानायाः दीपकसिंहस्य भगिन्याः दीपलतायाः प्रति आशीर्वादं दत्तवन्तः, सर्वेभ्यः बान्धवजनानाम् शुभाशंसाः च प्रदत्तवन्तः।
सोमवासरस्य अपराह्णे आगत्य मुख्यमन्त्रिणा योगिना दीपकसिंहस्य परिजनेषु मिलित्वा तेषां वैवाहिकसमारोहस्य अभिनन्दनं कृतम्। तेन हलदीक्रीयां कुर्वन्तीं कुलकन्यां दीपलतां प्रति आशीर्वादः उपहारश्च प्रदत्तौ। तस्या मंगलमयस्य दाम्पत्यजीवनस्य कामनापि कृता। मुख्यमन्त्रिणः आगमनसमये दीपकसिंहेन तेषां च परिजनेन स्मृतिचिह्नं च अंगवस्त्रं च प्रदाय तस्य अभिनन्दनं कृतम्। अस्मिन् अवसरि विधायकः फतेहबहादुरसिंहः, खण्डप्रमुखप्रतिनिधिः संजयसिंहः, पूर्वप्रमुखः गोरखसिंहः अनके च स्थानीयगणमान्यजनाः अपि उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani